पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । अन्योन्यमीक्षणकलामिव शिक्षयन्तौ ताराविधू व्यलसतां क्षणमात्तलज्जौ ।। ६३ ॥ यदा मदनमार्गणत्रुटितमानबन्धादिव त्रपा हृदयतच्युता निभृतकौतुकोजृम्भणात् । अकम्पत करस्तदा पुलकितः कपोलस्तयो- स्तनुः श्रमजलाङ्किता स्तिमिततारका दृग्बभौ ॥ ६४ ॥ प्रसारय दयामयं मयि कटाक्षमित्याकुलं वदन्गुरुनितम्बिनीमुपससार चन्द्रो यदा । शनैर्गललसत्पदं किमिदमाचरस्यङ्गज- प्रियेति बहुशो वदन्त्यपससार सा कामिनी ।। ६५॥ सरयमपसरन्तीं तां परित्यागशङ्का- कुलमिव पदयोर्यत्प्राग्रहीदन्तरीयम् । स्मरसुहृदपि तेन व्याहरन्तीं च मा मे- त्यमनुत निजचेतःकामनाकल्पवल्लीम् ॥ ६६ ॥ मम दयस्व विलासवतीत्ययं चिबुकसीम्नि चकार करं यदा । त्यजति मामिति रोषवशेन तन्मुखमवक्रयदीषदिव त्रपा ।। ६७ ॥ यदुपविवेश सा दलितकञ्चुलिकाविगल- न्मणिरशनावलग्नकरमीषदपत्रपिता। तदुपदिदेश कामसुहृदे किल कामकलां परवनितारतिक्रमविलासविबोधकरीम् ॥ ६८ ॥ ताराधरसुधासारहारी सोऽयं सुधामयः । अभूदन्नानुरूपा हि तनुरूपविवृद्धयः ॥ ६९॥ १. संगद्गदस्वरं यथा स्यात् .