पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तारा तदनु विधात्रा विजने कस्यैष बाल इति पृष्टा । चन्द्रस्येति शनैः सा मन्दाक्षभरानमन्मुखी न्यगदत् ।। २०३ ॥ शिशुरेष महाबुद्धिर्बुध इत्यभिधीयताम् । इति जल्पन्विरञ्चिस्तं विततार सितांशवे ॥२०४ ।। लब्ध्वा सुतं सितांशुः सतीं च वाचस्पतिस्तदा हृष्टः । स्वं गृह्मगमन्सर्वे सुरासुरास्तत्कथां प्रशंसन्तः ॥ २०५ ॥ श्रीकृष्णराजकरुणैकनिकेतनेन कृष्णेन भागतव इत्यभिशब्दितस्य । नारायणस्य तनयेन समीरितेयं तारासुधाकरकथा विदुषां मुदेऽस्तु ॥ २०६।। इति भागवतनारायणसूनुश्रीकृष्णकधिप्रणीतं ताराशशाङ्कं काव्यं समाप्तम् ।

रामचन्द्रकविकृतं

रसिकरञ्जनम्।

सटीकम् ।

शुभारम्भेऽदम्भे महितमतिडिम्भेङ्गितशतं
मणिस्तम्भे रम्भेक्षणसकुचकुम्भे परिणतम् ।
अनालम्बे लम्बे पथि पदविलम्बेऽमितसुखं
तमालम्बे स्तम्बेरमवदनमम्बेक्षितमुखम् ॥ १॥

शुभेति । शुभानां कर्मणामदम्भे दम्भरहित आरम्भे महितं पूजितम् ।१, वैराग्यश्रुङ्गारार्थद्वयसमानं सटीकमेतत्काव्यमयोध्यानगरे लक्ष्मणभट्टसुतो रामचन्द्रकविः १५२४ मिते ख्रिस्तसंवत्सरे प्रणिनायेति ग्रन्थसमाप्तितो ज्ञायते. एतत्पुस्तकं चास्माभिः १७०३ मितविक्रमसंवत्सरे लिखितमधिगतम्. एतत्कवि प्रणीतं रोमावलीशतकमयुपलभ्यते