पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । डिम्भान्बालानतिक्रान्तम् इङ्गितानां चेष्टानां शतं यस्य तम् । रम्भाया ईक्षणेन सकुचकुम्भे मणिस्तम्भे परिणतं तिर्यवाहारासक्तम् । अन्य गजकु म्भभ्रमेण । अनालम्बे दीर्धे पथि पदानां बिलम्बेन लम्बोदरतयामितभपरि- मितं सुखं यस्य । अम्बया पार्वत्या ईक्षितं मुखं यस्य । एवंविध स्तम्बेरमव- दनमालम्बे आश्रये ॥ विशिष्टश्रीभावालयनयनमुद्राविवरणे मुखं यस्या यस्माद्विलसति मिलत्कुञ्चिकमिव । स तस्याः स्वारस्याकलितचरणे काव्यकरणे कवीनां प्रावीण्यं कुवलयवतंसोऽवतु गिरः ॥२॥ विशिष्टेति । तस्या गिरः कुवलयकर्णाभरणं कवीनां काव्यकरणे ग्रावीण्य भवतु । कीदृशे काव्यकरणे । स्वारस्येनानायासेनाकलिताः स्फुरिताश्चरणा यत्र । यस्मादवतंसात् यस्या गिरो मुखं विशिष्ट चा श्रीः शोभा विलासाश्च तदालयरूपं यन्नयनं तस्य या मुद्रा तद्विवरणे तदुद्धाटने भिलन्नी कुञ्चिका यत्र तदिव विलसति ।। एकश्लोककृतौ पुरः स्फुरितया सत्तत्त्वगोष्ट्या समं साधूनां सदसि स्फुटां विटकथां को वाच्यवृत्त्या नयेत् । इत्याकर्ण्य जनश्रुतिं वितनुते श्रीरामचन्द्रः कविः श्लोकानां सह पञ्चविंशति शतं शृङ्गारवैराग्ययोः ॥ ३ ॥ एकेति । स्पष्टोऽर्थः॥ अपापधनसंवृतेरविशदस्मितात्युन्नम- त्समस्तनरसादरग्रहणतः कृतार्थप्रिया । रतिर्मनसि जायते यदि कदापि शौर्याश्रया तदैव सकलं जनुः सफलमेवमाहात्मभूः ॥ ४ ॥ अपेति । [ वैराग्ये-] यदि कदापि शौर्याश्रया शौरिः कृष्ण आश्रयो यस्याः सा रतिः प्रीतिर्मनसि जायते तदैव सकलं जनुर्जन्म सफलमित्यात्म- ७चतु