पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

भूर्ब्रह्मा आह । कीदृशी रतिः । अपापधनसंवृतेरविशदस्मिता पापनि बिडसं- वरणव्यतिरेकान्न विशन्ती अस्मिता अहंकारो यस्यां सा । पुनः । अत्यन्त- मुन्नमन्तः समस्ता ये नरा अम्बरीषादयस्तेषां यत्सादरं ग्रहणं ततः कृतार्थी ये शुकादयस्तेषामपि प्रिया ॥ [शृङ्गारे-] यदि शौर्यमाश्रयो यस्या एवंविधा रतिः कामवधूर्मनसि जायते मनसिज इवाचरति तदैव सकलं जन्म सफलभित्यात्मभूः काम आह। कीदृशी रतिः । अपगतापघनानामवयवानां या संवृतिराच्छादनं ततोऽवि- शदमव्यक्तं स्मितं यस्याः सा । पुनः । अत्यन्तमुन्नमन्तावुत्पतनादिना समौ यौ स्तनौ तयो रसेमावेशेनादरेण यद्ग्रहणं ततः कृतार्थः प्रियो यस्याः सा ॥ अकलियुगमखर्वमत्र हृद्यं व्यचरदतापधनो यतः कुटुम्बी । मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्मदशास्यमर्दनेन ॥५॥ अकलीति । [वै०-] अन्न संसारे अकलियुगं कलिव्यतिरिक्त- त्रेतादियुगं महत् हृद्यं हृदयंगमं भवति । यतो युगात् कुटुम्बी संसारी न तापधनः सन् व्यचरत् । अत एव इह त्रेतायां लक्ष्मणाग्रजेन रामेण मम रुचिः प्रभवति शर्म सुखं च दशास्यमर्दनेन प्रभवति ।। [शृ०-~- -] अखर्व पीनं, हृद्यं हृदयोङ्गवं, युगं युग्मं, अकलि दृष्टम् । यतो यत्र अपगतापघनः अनङ्गः कुटुम्बी रत्या सहितः सन् व्यचरन् । मम इह युग्मे रतिः प्रीतिः प्रभवति । अग्रजेनाने जातेन, लक्ष्मणा चिह्नेन, कुचा- ग्रश्यामिकया नखक्षतेन वा । अथ च अस्य मर्दनेन शर्मदशा च प्रभवति ॥ जातु सुदर्शनपाणिः श्रवणादेः किं न वाञ्छितं यच्छेत् । दास्यति चिरानुवृत्त्या रमणीयं किमपि कामितं वस्तु ॥ ६ ॥ जात्विति । [वै०-] सुदर्शनं चक्रं पाणौ यस्य स विष्णुः श्रवणादेः श्रवणमननादितः किं वाञ्छितं न यच्छेत् । अपि तु सर्वमपि । चिरानुवृत्त्या किमपि रमणीयं किमप्यनिर्वाच्यं भोक्षलक्षणं वस्तु किं न दास्यति । [१०-- -] सुष्टु दर्शनं यशोः एवंविधौ पाणी यस्थाः सा श्रवणादिना वाञ्छितं किं न यच्छेत् । इयं रमणी दास्याः अतिचिरमनुवृत्त्या किमप्य- निर्वाच्य संभोगादि कामितं वस्तु यच्छेदेव । पूर्वत्र संबन्धः ॥