पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

38 रसिकरञ्जनम् । घनस्तनभरालसा ब्रजति गौरवन्ध्येह ते विधेहि कटिपार्श्वयोर्नखमुखेन कण्डूयनम् । इतः सुखपरम्परा मिलति संप्रति श्रेयसा सदा न खलु संगतिर्भवति गर्भसंभूतये ।। ७ ।। घनेति। [वै०-] धनस्तनभरेण अलसा अवन्ध्या प्रसूता इह ते गौर्व्रजति । त्वं नखमुखेन कटिपार्श्वयोः कण्डूयनं विधेहि । संप्रतीदानीमेव श्रेयसा पुण्येन इतः सुखपरम्परा मिलति । अस्याः सदा संगतिः गर्भसंभू- तये जन्मने न भवति ॥ [शृ-] इयं गौरवन्ध्या घनस्तनभरालसा ब्रजति । ईहते वाञ्छति । अतः कटिपार्श्वयोर्नखमुखेन कण्डूयनं विधेहि । इतो बन्ध्यायाः सङ्गेन संप्रति श्रेयसा सुखपरम्परा मिलति । अस्याः सदा संगतिरपि गर्भसंभूतये न भवति ॥ कदलीकरभसमानां कलयति यो रूपक्लृप्तिमतिरुचिराम् । सोपायाद्दृढयोगं गमितोरसिकोपकरणविषयतया ॥ ८ ॥ कदेति । [वै०-] यः पुरुषः रूपाणां नानाविधानां क्लृप्तिं कल्पनाम् अत्यन्तं रुचिरां भनोहरां कुत्सितालीकरमसाहंकारां कलयति जानाति । स इदानीमपगतेन्द्रियविषयत्वेनारसिको दृढयोगं योगाभ्यासं गमितो गुरुणा अपायात् अपगतः ॥ [१०] या कदलीकरभयोः समानां ऊर्वोरुपक्लृप्तिं कलयति । सा उपा- यात् कोपकरणविषयत्वेन उरसि दृढयोगं गमिता ॥ नर्मदामनु तपस्यशान्तहृद्धृष्टधीरसिकतामये कचित् । संसृताविह परात्मयोगकृत्किं तदन्यदपि कर्म शर्मणे ॥९॥ नर्मेति । [वै०-] हे धृष्ट धीर, नर्मदानदीमनु क्वचित् सिकतामये सैकते शान्तहत् भूत्वा तपस्य तपः कुरु । इह संसृतौ परात्मयोगकृत् ततोऽपि किमन्यत् कर्म शर्मणेऽस्ति । [-] अहं तपसि माघे अशान्तहृत् शीतासहिष्णुतया नर्म ददा- तीति नर्मदा ताम् अनुगम्य हृष्टधीः सन् क्वचिदेकान्ते रसिकतां रसिकत्वम्