पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० काव्यमाला। अये प्राप्नोमि । इह संसारे परया अन्यया आत्मनो योगं संबन्ध करोति यत् कर्म तत् किं एतव्द्यतिरिक्तं अस्ति यच्छर्मणे भवतीति ॥ योगमितो मधुरतया पौरोभाग्यं व्यनक्ति विषयेषु । धन्यः स एव मान्यः संसारेऽस्मिन्नसाधुताभिज्ञः ॥ १० ॥ योगमिति । [ वै०-] यः मधुरतया मनोहरत्वेन अगं पर्वतं इतः प्राप्तः सन् विषयेषु स्रगादिषु पौरोभाग्यं दोषैकहक्त्वं व्यनक्ति प्रकटयति । मधु- रत्वेन योगाभ्यासं इतः प्राप्तः इति वा । स एव धन्यः संसारेऽस्मिन् असाधु- तामभिजानाति । [१०-] यः पौरो नागरिकः रतयानुरक्तया मधु गमितः प्रापितो विषयेषु भाग्यं व्यनक्ति स एव धन्यो मान्यश्च । संसारेऽस्मिन् साधुत्ता- भिज्ञो न मान्य इति ॥ आसाद्य सोमभुवमाखहि यत्र नित्यं भङ्क्तुं प्रलोभयति सैकतमंशुकाभम् । तत्तत्र निर्वहति संप्रति नित्यकृत्य- मेतस्य विस्मृतगृहस्य परानुभूत्या ॥११॥ आसाद्येति । [ वै०-] सोमभुवं नर्मदां आसाद्य आवां आस्वहि । यन्न नित्यं मङ्क्तुं अंशुकाभमुज्वलं सैकतं प्रलोभयति । तस्माद्वेतोरावयोर्मध्ये एतस्य परानुभूत्या परब्रह्मानुभवेन विस्मृतगृहस्य नित्यकृत्यं तत्र निर्वहति ॥ [१०---] त्रयाणां मध्ये द्वयोरेकं प्रति वचनम्-उमा अतसी तत्स- हितां भुवमासाद्यावामास्वहि । यत्र सा ज्ञाता स्त्री शुकामं शुकदेवसमान- मेकतममावयोर्मङ्क्तुं प्रलोभयति । तत्तस्माद्धेतोरेतस्य संप्रति नित्यकृत्यं निर्व- हति । परस्य अनुभूत्वा अनुभवेन विस्मृतगृहस्य ॥ आसाद्य कृष्णपक्षानत्रसतः सर्वदाभीकान् ! परयात्मनि रतचित्तान्विभाव्य तत्कर्म कुर्वतः क्व भयम् ॥१२॥ आसाद्येति । वै०-] अन्न संसारे कृष्णः पक्षो येषां तान् सर्वदा अभीकान् निर्भयान सतः पुरुषान् आसाद्य उपगम्य परे आत्मनि रतचित्तान् विभाव्य तत्कर्म तेषां कर्म कुर्वतः पुरुषस्य क भयम् ॥