पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । [श्रृ ॰- ] कृष्णपक्षान् प्राप्य सर्वदा अनसतोऽभीकान् कामुकान् पर- यान्यया आत्मनि रतमनसो विभाव्य त्वमपि तत् कर्म कुरु । ततस्ते क्क भयम् ॥ असौ समरसाहसं वितनुतेऽग्रिमश्रेयसे मुकुन्दममुमात्मनि स्थिरयितुं न किं वाञ्छति । अतः परतरं कुतः प्रतरणाय वारां निधे- र्निदानमिह संसृतेः सुखसृतेश्च किं कारणम् ॥ १३ ॥ असाविति । [ वै०-] असौ पुरुषोऽग्रिमश्रेयसे समरसाहसं वितनुते संमुखयुद्धेन तनुं त्यक्त्वा मुक्तो भवेयमिति इच्छति । अमुं मुकुन्दम् आत्मनि हृदये स्थिरयितुं किं न वाञ्छति । अग्रे स्पष्टम् ॥ [श्रृ ॰-] असौ स्त्री समो रसो यस्याः सा हसं हास्यं वितनुते अग्रि- मश्रेयसे संभोगाय आत्मनि स्वशरीरे अमुं मुरहितं मुकुन्दम् अर्थात् कुन्दं स्थिरीकर्तु किं न वाञ्छति । इयं हासेन स्वदेहे कुन्दपुष्पं स्थिरीकरोतीव । अतो हेतोः संसारसिन्धुतरणाय किं निदानं सुखमार्गस्य वा किं कारणमस्ति । चिरमीक्षेमहिलास्यं मायाया दीर्घसीमनि स्वप्ने । यद्वासनया वासितमात्मानं वेद नापि वेदज्ञः ॥ १४ ॥ चिरभिति । [ वै.-] दीर्घसीमनि स्वप्ने संसारे मायाया लास्यं नृत्यं चिरं वयमीक्षेमहि । वेदज्ञोऽपि यद्वासनया वासितमात्मानं न वेद ॥ [श्रृ ० ] दीर्घसीमनि स्वप्ने चिरमन्रुवर्तमाने मायाया महिलायाः स्त्रिया आस्यं मुखम् ईक्षे पश्यामि । यस्य मुखस्य वासनया वासितमात्मानम् अहं वेदज्ञोऽपि न वेत्, इति विरहिणो वचनम् ॥ आसादितव्योऽस्ति करालकेशः सखेदयार्ह: समयोपकारी । तदुत्तमश्लोककथानुबन्धस्तावद्यथा स्यात्प्रयते तथाहम् ॥ १५ ॥ आसादीति । [वै०-] हे सखे, कराला भीषणाः केशा यस्मिन् दयार्ह: अपकारी समयो वार्धकसमयः मया आसादितव्योऽस्ति । तस्माद्धेतोरुत्तम- श्लोकस्य कृष्णस्य कथानुबन्धः तावत्पर्यन्तं यथा स्यात्तथा प्रयते यत्नं करोमि|| [श्रृ ० -- ] सखेदया सदुःखया मया उपकारी करेण अलकेशः कुबेरः