पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ काव्यमाला। अर्थाद्रव्यदग्ता अर्हो योग्यः स पुरुष आसादितव्योऽस्ति । तादृक्तस्यैव उत्तम- श्लोककथानुबन्धे उत्तमयशःकथानुबन्धो यथा भवति पथा यते यत्नं करोमि ।| सैवाद्रियेत रत्यै पुंसः परमस्य यानवाचर्चा । तस्मात्तदेकनिष्ठं चित्तं कृत्वा सुखं समासीत ॥ १६ ॥ सैवेति ।[वै० ] परमस्य पुंसः कृष्णस्य या नवा चर्चा सैव रत्यै प्रीतये आद्रियेत । अग्रे स्पष्टम् ॥ [श्रृ ॰-] यतः सैव रत्यै रताय त्वाम् आद्रियेत । परं त्वस्य पुंसस्तत्प- तेर्यानवाचा गमनवचनेन ऋचा ऋक् रूपया । सत्ययेत्यर्थः । तस्मिन् प्रो- षिते सैवागमिष्यतीत्यर्थः । तस्मात्तस्यामेवैका निष्ठा यस्यैवंविधं मनः कृत्वा सुखेनासीत ॥ दृक्षा सागरलङ्घनं कलयते रामायते श्लाघते लोको यः स न वेदनामपरतः प्राप्नोति भीतिं यतः। क स्यान्मे पुनरङ्गसंगतिरिति ध्यायन्नयं त्वादरा- त्कोऽहं कुत्र कुतः कदा कथमिति स्मृत्या परित्यज्यते॥१७॥ दृष्टचेति । [वै०-] यो लोकः दृष्टया सागरस्य लङ्घनं कलयते कुर्वते रामाय ते तुभ्यं श्लाघते स्तुतिं करोति । स लोकः अपरतोऽन्यतो वेदनां दुःखं न प्राप्नोति भीतिं च यतो न प्राप्नोति । अतो हे राम, मम पुनरङ्ग- संगतिः शरीरसंबन्धः क स्यादिति बुद्ध्या अयं लोक आदरात् त्वा त्वां ध्याय- न् अहं कः कुत्रास्मि कुतः समागतोऽस्मि कदा कस्मिन् काले कथं केन प्रका- रेण, इति स्मृत्या परित्यज्यते ॥ [श्रृ ॰-] कस्यचन नष्टयति प्रति वचनम्-है यते, सा रामा स्त्री दृष्टया दर्शनेन घनं निबिडं गरलं विषं कलयते क्षिपति तद्गोचरो यो लोकः श्लाघते स नामेति प्रसिद्धौ न जानातिं किल । यतः परतः अग्रे भयं दशमावस्याप- र्यन्तं प्राप्नोति । तु पुनः अर्य लोक आदरात् एतदङ्गसंगतिः क्व स्यात्, इति ध्यायन् 'कोऽहं कुत्र' इत्यादिस्मृत्या परित्यज्यते ॥ अचिरात्परात्मनिष्ठा भवति यतस्तत्कियेत चतुरेण । क्लेशेन कामदमनं धिगेकदारञ्जयन्तमात्मानम् ॥ १८ ॥