पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १०३ अचिरादिति । [वै०--] अचिरात् परमात्मनि निष्टा यतो भवति तदेव चतुरेण क्रियेत कामदमनमीश्वरमेकदा कदाचित् कष्टेन रञ्जयन्तं धिक् ॥ [श्रृ o--] अचिरात् परा अन्या स्वी यतो हेतोः आत्मनिष्ठा स्त्रवशा भवति तदेव चतुरेण कर्म कार्यम् । एकदारमेकपत्नीकं क्लेशेन कामं अन्यां प्रत्युत्पन्नमपि दमयन्तम् आत्मानं जयन्तं धिक् ॥ स्फुटस्फुरणमानसा सबहुमानरोषस्थिति- र्भवद्विषयवासना चलतया दुरुत्सारणा। प्रियाचरणभाग्यतो भवति सप्रसादोऽजित- स्ततस्तदुपसेवनं तव सुखाय नान्याश्रयः ॥ १९ ॥ स्फुटेति । [वै०-~] भवतो विषयवासना चलतया दुरुत्सारणा । की- दृशी । स्फुटस्फुरणं मानसं यस्यां सा । पुनः । बहुमानेनाहंकारेण रोषेण च सहिता स्थितिर्यस्याः सा । अजितः कृष्णः प्रियस्य हितस्य आचरणं तेज्जन्य- भाग्यतः पुण्यात् सप्रसादः प्रसन्नो भवति । अतस्तस्यैवोपसेवनं तव सुखाय स्थात् , अन्याश्रयो न हितायेति ॥ [श्रृ ॰ -] हे चल चञ्चल, अन्यासक्ततग्रा भवद्विषया वासना त्वदपरा- धाहित: संस्कारो नापनेतुं शक्यते । कीदृशी । बहोर्मानस्य रोषस्य च स्थित्या सहिता । पुनः । नसा नासिकया स्फुटा व्यक्ता स्फुरणमा स्फुरणलक्ष्मीर्यस्यां सा। यतो हेतोः प्रियायाश्चरणौ भजते प्रियाचरणभाक् पुरुषः जित: सन् सप्रसादः तत्प्रसादसहितो भवति । अन्यस्या आश्रयोऽन्योपाश्रयो वा न तव सुखायेति ॥ दृश्येतदेव रूपं सुकृतविपाकेन केन ते दृष्टम् । एतर्हि गर्हितं मे जन्म न तत्कर्हिचिद्यदालोचि ॥ २०॥ दृश्येतेति ।[वै॰ -- ] हे देव, तव रूपं पुण्यपरिपाकेण दृश्येत कर्हि- चित् । अथवा केन ते रूपं दृष्टम् , न केनापि । यत् यतो हेतोस्तत्ते रूप मया नालोचि मनसापि न शीलितम् । ततो मे जन्म एतर्हि इदानी गर्हितम् ॥ [श्रृ ॰ --] हे दृश्ये दर्शनार्हे, तदेव ते रूपं श्रुतपूर्वमद्भुतमिति एतर्ही-