पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ काव्यमाला। दानीं केन पुण्यपरिपाकेण दृष्टम् । तत्ते रूपं पूर्वं कदाचिदपि यन्नालोचि ततो मे जन्म गर्हितमिदानीं त्वद्दर्शनेन सफलमिति ॥ प्रसीदति किलाजितः श्रितमनोजवन्ध्यायते क्षरन्मदनवारणप्रतिकृतौ प्रयत्नं कुरु । यतः श्रुतिशिरःशतप्रकटितप्रमोदाद्वय- स्वरूपविषया भवेत्तव परानुभूतिश्चिरात् ॥ २१ ॥ प्रेति । [ वै०-] अजितः कृष्णः श्रितो मनोजवो मनोवेगो यस्मिंस्त- द्यथा स्यात्तथा ध्यायते पुरुषाय प्रसीदति किल । तत आदौ क्षरन् यः मदन एच वारणो हस्ती तस्य प्रतिकृतौ प्रतीकारे प्रयत्नं कुरु । किं विष्णुप्रसादेन भवतीत्यत आह-यतो विष्णुप्रसादात् श्रुतिशिरसां वेदान्तानां शतेन प्रक- टितं पदद्वयं स्वरूपं तद्विषया परानुभूतिर्ब्रह्मसाक्षात्कारस्तव चिराद्भवेदिति । [ श्रृ ॰ -] श्रितो मनोजः कामो येन । हे यते, वन्ध्या स्त्री आजितः संग्रामात्कामयुद्धतः प्रसीदति किल । अतः अक्षरदस्खलत् मदनवाः काम- जलं रेतो यस्यैवंविधः सन् रणप्रतिकृतौ कामरण एव प्रतीकारस्तत्र प्रयत्नं कुरु । यतो यत्नाद्वेदान्तशतप्रतिपादितानन्दाद्वयरूपात्मानुभवश्चिरात्तव भवे- दिति परिहासोक्तिः ॥ साधोरजनिमहेशं किमुपर्यासीन्न तेऽतिभावयतः । प्रायो मयोपदिष्टो विनैव कष्टं स्वयं सुखं लभते ॥ २२ ॥ साधो इति । [वै०-] महेशमीश्वरम् अतिभावयत: अत्यन्तं चिन्त- यतः साधोस्ते किं नाजनि किम् उपरि नासीत्, किं न जातं ज्ञानादिकं किमुत्कृष्टं पदं नाभूत् । अग्रे स्पष्टम् ॥ [श्रृ ॰-] रजनिमहे रान्युत्सवेऽधःस्थिता सा शं सुखविशेषम् अति- भावयतस्ते उपरि किं नासीत् , अपि त्वासीदेव । प्रायो मदुपदेशेन स्वयं कष्टं विनैव सुखं सुहृल्लभत इति ॥ प्रसादसुकुमारताविजितसान्द्रचान्द्रप्रभा रसोत्तरतरस्फुरन्मधुरवृत्तवर्णोत्तमा ।