पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १०५ सदच्युतपदस्थितिर्भवति भारतीशस्यते ततस्तव रसज्ञयाजनि कृतार्थया संगमात् ॥ २३ ।। प्रसादेति । [वै०--] ईश्वरश्लोककृतं कविं प्रति वैष्णववचनम्-भव- ति त्वयि भारती शस्यते स्तुत्या भवति । ततो हेतोस्तव जिह्वया तत्संग- मात्कृतार्थयाजनि जातम् । कीदृशी सा सरस्वतीत्यपेक्षायामाह-प्रसादेन सुकुमारतया च विजिता सान्द्रा चान्द्री प्रभा यया । अतिशयेन रसप्रचुरा रसोत्तरतराः स्फुरन्मधुरं वृत्तं छन्दो येषु एवंविधा वर्णोत्तमाः श्रेष्ठाक्षराणि यस्यां सा अच्युतस्य पदे चरणे स्थितिर्यस्याः सा भारती ॥ [श्रृ ॰ — -] हे मित्र, रतीशस्य कामस्य मा कान्तिः शरीरशोभा ते भवति । ततो हेतोस्तव संगमाद् रसज्ञया रसं जानत्या कृतार्थयाजनि । की- दृशी कान्तिः । प्रसादेन मुखप्रसादेन सुकुमारत्वेन च विजिता सान्द्रा चान्द्री प्रभा यया । पुनः । रसोत्तरा भूलोकातिगा अतिशयेन रसोत्तराणि स्फुरन्ति मधुराणि वृत्तानि चरित्राणि वर्णोत्तमो गौरिमा यस्यां सा । पुनः । सती अ- च्युतास्खलिता पदे स्थाने स्वल्लक्षणे स्थितिर्यस्याः ।। आसाद्यते कथं वा शौर्याश्रयणे न गौरवध्वंसः । तत्तत्र दत्तचित्तश्चित्तजसंतापभाजनं न जनः ॥ २४ ॥ आसेति । [वै०--] शौरेः कृष्णस्य आश्रयणे कथं वा गौरवध्वंसः आसाद्यते । तत् तत्र दत्तचित्तो जनश्चित्तोत्पन्नसंतापभाजनं न स्यात् ।। [श्रृ ॰ - गौर्या वध्वा अंसः स्कन्धः शौर्याश्रयणे शूरतावलम्बने सति कथं वा नासाद्यते न प्राप्यते । तस्मात् तत्र साहसे दत्तचित्तश्चित्तजेन कामेन यः संतापस्तद्धाजनं जनो न स्यात् ॥ प्राप्तः कांचनसंपदा विपुलयाहंभावसीमामिमां को जानाति जनोमनागपिहितो मायामयोग्राधिना । एतचित्तफलं मनुष्यजनुषो यत्प्रेम रामाश्रितं किंचोरस्थलशायिनः कुशलतो याता निशा हैमनी ॥२५॥ प्राप्त इति [वै०-] विपुलया संपदा कांचन अनिर्वचनीयाम् अहंभाव- सीमां प्राप्तः मायामयेन उग्राधिना अमनाक् अधिकम् अपिहित आच्छादितः