पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । अस्या मुखेन चलकुन्तललाञ्छितेन मुग्धस्मितेन समतामधिगन्तुमेव । पाथोरुहं परिचयं कुरुते मिलिन्दै- र्हंसार्भकं च वदनेन मुहुर्दधाति ॥ ४७ ॥ कुचावमुष्याः स्मरकुम्भिकुम्भौ न वेद को नाम यतः समीपे । नलित्रयाकल्पितमुष्टिमुद्रा तनूरुहश्रेणिसृणिर्विभाति ॥ ४८ ॥ नामैव न स्यादसतः सतो न स्याददर्शनम् । ब्रह्मेव तत एतस्या वलग्नं वेद्म्यगोचरम् ॥ १९ ॥ सकलभुवनमोहनस्य केलीसदनमिति ब्रुवते यदङ्गजस्य । जधनमिदमृतं मनो विमूढं न पुनरतो विनिवर्तते यतो मे ॥५०॥ तारुण्याङ्कुरवृद्धये मनसिजः सीमन्तकुल्यामुखे लावण्याम्बुमवायज्झरमहो तेनालकान्पार्श्वयोः । कृत्वाधिक्यमितस्ततो विकृषता वक्षोजशैलाग्रतो वेगेनापतता निखातमुदरं श्रोणीभरश्चैधितः ॥ ५१॥ अंशैरियमभून्नूनमिन्दिरापार्वतीगिराम् । यदङ्गेष्वपि सर्वेषु सौन्दर्यसुषमा समा ॥ ५२ ॥ अस्यां ममेव हृदयं मयि नूनमस्याः सक्तं स्मितेन लसितं चलितं कटाक्षैः । उन्मीलितं कररुहैः स्फुरितं करेण खिन्नं हृदा समुदितं हि मनोरथैश्च ॥ ५३ ॥ अतः परमहो सौख्यमैहिकं किमु देहिनाम् । अकृत्रिमतमप्रेमरमणीसंगमादपि ॥ ५४ ।। शृङ्गारो हि रसो मरुन्मलयभूर्मल्लीप्रसूनं वय- स्तारुण्यं समयो मधुर्मनसिजो मित्रं सहायो मनः ।