पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अहह महल्लावण्यं मोहनमूतैर्यतो दृगङ्गेऽस्याः । यत्नेनैव विधेया रत्ने स्निग्धे शलाकेव ।। ३९ ॥ नूनमालोक्य कान्तायाः कान्तिमस्यास्तडिल्लता । लज्जिता जातमात्रैव तत्र तत्र विलीयते ॥ ४०॥ को नाम रामणीयकमेतस्या वर्णयेत्कविर्लोके । एकैकमपि यदङ्गं न विमुञ्चत्यन्यतो दृशं प्राप्ताम् ॥ ४१ ॥ सृष्ट्वा प्रथममहल्यां तिलोत्तमामपि विधिः कृताभ्यासः । एतां ससर्ज नूनं नो चेत्कथमङ्गसौष्ठवमियत्स्यात् ।। ४२ ।। तिरश्चां नो लज्जेत्यभिदधति मिथ्यैव विबुधा- श्चमयों यदृष्ट्वा कचनिचयमस्या वनमगुः । दृशं दृष्ट्वा प्राणेष्वपि विगततृष्णैरविरतं चकोरैरङ्गारग्रसननियमः सोऽपि विधृतः ॥ ४३ ।। श्रुत्वास्या वचनं वनप्रियतया ख्याताः पिका भैव भू- त्खीयानां कलकण्ठतेति करटैः संरक्षयन्ते शिशून् । आस्तामेतदचेतना अपि दिवारात्रं यदालाबुकं धृत्वा पात्रमहो भ्रमन्ति भुवने वीणा विरक्ता इव ॥ ४४ ॥ मृत्वा जितं मनसिजेन मम प्रियैव यः सुन्दरीति भुवनेषु ववल्ग हप्तः । दृष्ट्वाथवा स्त्रियमिमां निपपात भाल- वह्नौ हरस्य सुरकार्यचिकीर्षयेव ॥ ४५ ॥ मनोजेऽनङ्गे तत्करसरसिजानाश्रयशुचा द्विधा जातं चापं यदपि बहुधा तस्य विशिखाः। अमुष्याः संप्राप्य भ्रुकुटिकुटिलापाङ्गरुचितां विवल्गन्त्येते ते सकलजनसंमोहनचणाः ॥ ४६॥