पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । ७५ यदा सुमशरः शरं समसृजत्तदा पार्वतीं मनस्यकलयत्परं पुररिपुर्यदासौ शिरः । रुरोह विरहागमव्यसनतस्तदायेकतां तया स विषमेक्षणोऽप्यलभतेति काप्यालपत् ॥३१॥ अत्रेः क्व शक्तिरपि तस्य पितुर्नहीदृ- गाश्चर्यवस्तुकलनेष्विति चिन्तयन्ती । कस्माद्भ्रमामि मनसोऽभवदेष विष्णो- रित्याह नु श्रुतिरितीव जगाद कापि ॥ ३२ ॥ एवं स्मरेणाकुलितासु तासु व्यालोलदृष्टेरुडुनायकस्य । तस्यापि सांक्रामिकबद्बभूव स्मारो विकारः करणापहारी || ३३ ॥ परा लक्ष्मीरेषा प्रथमरसवेणीयमतनो- रियं संपद्यूनामियमपि तपःसंततिफलम् । इयं देवी वात्स्यायनमुनिमतस्येति स तत- स्ततस्तास्ताः पश्यन्किमपि परमं प्रैक्षत महः ॥ ३४॥ किमेतदित्याकुलितान्तरात्मा विमृज्य नेत्रे मुहुरीक्षमाणः। तदन्तरे मानुषरूपमेकं ददर्श नारीत्यपि निश्चिकाय ॥ ३५ ॥ श्यामामुन्मुस्वजानुसंगतभुजं सरव्यङ्गदेशोल्लस- ज्जान्वध्यासितकूर्परं करतलन्यस्तैकगण्डस्थलम् । आसीनां स्खलितांशुकान्तविकसद्वक्षोरुहां वीक्ष्य तां मायामेव मनोहराकृतिधरां मेने स मैनध्वजीम् ।। ३६ ॥ पुनः स रम्भा किमुतोर्वशीयं तिलोत्तमा गौतमसुन्दरी वा । रतिर्नु वाणी गिरिजा रमेति विचार्य वेत्ति स चिराय ताराम् ॥ ३७॥ तस्या गुरुनितम्बिन्या लावण्यं रमणीयताम् । सौन्दर्यमपि संपश्यन्स एवं हृदयेऽकरोत् ॥ ३८ ॥