पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अयं किल भयंकरं त्रिभुवनासुवातंधयं ससर्ज पुरुषं विषं तदिति पुष्कराक्षो रुषा । चकर्ष कैलशोदधेः सकलभाग्यसारं श्रिया सहामुमिति काचिदन्वलपदेणशावेक्षणा ॥ २५ ॥ काचित्तं हृदयंगमं मनसिजप्रेम्णेव संभावय- न्त्युद्यत्केलिमनोरथोत्सवरसोल्लासा बभासे क्षणम् । सव्रीडेव सकौतुकेव चकितेवाह्लादिनीवोन्मदा संभ्रान्तेव च कोपना व्यसनिनीवानन्दसान्द्रेव च ।। २६ परपुरुषमुखं न वीक्षणीयं कुलभवयेति विचिन्तयामि भूयः । घटयितुमपि पक्ष्म नैव शक्नोम्यहह किमेतदिति स वक्ति कापि ॥२७ किं पश्यामि किमालपामि किमहं ध्यायामि किं चिन्तये किं वाच्छामि वितर्कयामि किमु किं तिष्ठामि कुर्वे च किम् । इत्याकृप्तविकल्पजल्पितशता काचित्कुचोज्जृम्भणा- त्रुट्यन्तीमपि कञ्चुलीं विगलितां नीवी च नावैक्षत ॥ २८ दग्धो मारस्त्रिपुररिपुणेत्यद्य मिथ्या विजाना- म्येतं पश्यन्त्यहमिति सखीं काचिदूचे ब्रुवाणाम् । मुग्धे किं त्वं भ्रमसि स तनुं तस्य हुत्वाक्षिवह्नौ लेभे तस्याप्यतिमदकरश्रीकमेतच्छरीरम् ॥ २९ ॥ अयं नात्रेः पुत्रो नयनमलजातस्य नु कथं भवेल्लावण्यश्रीरियमनुपमा सोऽयमथवा । तपःशक्त्या तेजोनिधिमपि दृगुल्लासकममुं ससर्जार्कं गर्वं तिरयितुमिति स्माह च परा ॥३०॥ १. लोकत्रयप्राणहरम्. २. विष्णुः. ३. क्षीरसागरात्.