पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । ७३ विस्मयस्तिमितनेत्रतारकं विस्मयस्फुरणपक्ष्म काचन । वीक्षते स्म तमतिस्मराकृतिं लक्ष्यसाधनमिवानुकुर्वती ॥ १६ ॥ निमिषद्भिरुन्मिषद्भिस्त्रपया कुतुकेन विकसितानङ्गैः । लावण्यनिधिमपाङ्गैस्तमापिबन्तीव कापि बभौ ॥ १७ ॥ अहो लक्ष्मीरहो रूपमहो लक्षणशालिता। अहो दाक्षायणीपुण्यमिति काचित्समालपत् ॥ १८ ॥ काचिदन्तःप्ररूढस्य कुतूहलमहीरुहः । कुसुमेनोद्भतेनेव स्मितेनाकलिता बभौ ॥ १९ ॥ अर्पयैतमधरं मधुरं ते मत्सखाय शशिने सहसेति । अन्तरङ्गजनुषोन्नमितास्येवोन्मुखी गगनमैक्षत कापि ॥ २० ॥ चकिता मृगीव काचिच्चलनयना वक्रिताननोद्रीवा । व्यलसत्परुषतरस्मरशरागमायनमवेक्षमाणेव ॥२१॥ रेजे काप्यङ्गभङ्गप्रसृतभुजलतालिङ्गितुं संप्रवृत्ते- वैका किंवापि वक्तुं चलितरदपटी चुम्बितुं प्रोद्यतेव । अन्या रोमाञ्चिताङ्गी बहिरिव विगलत्प्रौढमानान्धकारा- प्यन्योद्यन्मन्दहासा विमलरुचि किरन्तीव संमोहचूर्णम् ॥२२॥ निमीलन्निःश्वासा निमिषदरविन्दाभवदना तिरो मीलन्नेत्रा तनुजलकणालंकृततनुः । उदञ्चद्रोमाञ्चा व्यलसदपरिस्पन्दसकल- प्रतीका काप्यन्तःकरणरतितान्तेव तरुणी ॥ २३ ॥ अपसरापसरेति पुरः स्थितं जनमिव ब्रुवती करकम्पितैः । अनुचकार लतामनिलोच्चलत्किसलयामपरा चपलेक्षणा ॥ २४ ॥