पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। दोषान्निरस्य गृह्णन्तु गुणमस्या मनीषिणः । पांसूनपास्य मञ्जर्या मकरन्दमिवालयः ॥ ८॥ कलशजलधिगेहस्याक्षि यं वाममाहुः प्रथमरसविकासप्रौढिमश्रीनिवासम् । स जयति जगदेकानन्दनोद्दामधामा सकलविभवभूमा देवतासार्वभौमः ॥ ९ ॥ अयं सखायं मम चिन्त्यकायं चकार घोरेक्षणवीक्षणेन । इतीव रोषेण शिरः पुरारेराक्रम्य यो भातितरां कलात्मा ॥१०॥ कुमुदवलयव्यालोलश्रीविलाससुधासरि- द्भ्रमकरकरश्रीकाद्राकाङ्गनासुमकन्दुकात् । अविरहयुवश्रेणीसाम्राज्यसौख्यसुरद्रुमा- त्रिजगति यतो निर्वर्ण्यं वा न वर्ण्यमवेक्ष्यते ॥ ११ ॥ सुरासुरशिरोरत्ननीराजितपदाम्बुजः । स राजसूयं सद्राजो विधातुमुपचक्रमे ॥ १२ ॥ अतिविचित्रतदुत्सववीक्षणोत्सुकहृदः ससतीसुतबान्धवाः । सुरनरोरगलोकनिवासिनः सरयमभ्यगमन्सकला जनाः ॥ १३ ॥ वाणीपाण्याचञ्चव्द्यजनभवमरुन्मृष्टहोमश्रमाम्बौ दिक्कान्तालोचनान्तप्रसृमरसहजप्रेमसाम्राज्यधाम्नि । तस्मिन्सौन्दर्यमन्दीकृतमदनमदनाभवे श्रीसनाभौ सर्वासामङ्गनानां सपदि समपतन्दृष्टयः कामकृष्टाः ॥ १४ ॥ स एव जानाति विलासिनीनां कटाक्षतैक्ष्ण्यं कमनीयमूर्तिः । योऽयं कलङ्कीत्यधुनापि लोकैरालोक्यते तेन गृहीतसारः ॥१५॥ १. दुग्धाब्धिशायिनो विष्णोर्वामनेत्रं चन्द्रम्. २. शृङ्गारः,