पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथ निपुणमतीनामग्रणीरुग्ररूपः स्मरशरपरितापव्याकुलाङ्गो मृगाङ्कः । प्रतिदिनमवियोगे कल्पयन्नभ्युपायं प्रणयपरवशां तां वल्लभामेवमूचे ॥१०॥ ह्रद्यां विद्यामधीष्व त्वमिह सहचरात्पावकाव्याजपूर्व धत्ते सोऽयं यथा त्वामनुदिनमुदरे सादरं हन्त पश्चात् । धृत्वा मां याहि नित्यं जठरकुहरमेतस्य जातानुमोदा- चावां तस्मिन्वसन्तौ तदनु विहरणं कुर्वहे सार्वकालम् ॥११॥ अथ सा हुतवहसहचरी मधुरां जारभारती तथेति प्रतिगृह्य स्त्री- जनसुलभेन निर्बन्धेन निबध्य सुदुर्लभामपि तां विद्यां जडात्मनो हुताशनादधिजगाम । संध्यायामथ निर्गते पुनरहो कामाहवं कुर्वतोः स्वाहाचन्द्रमसोः क्षणेन स गतो यामोऽयमामोदिनोः । संप्राप्त परिणेतरि क्षणमिव स्वाहानु विद्यावशा- त्संजग्राह निजोदरे शशधरं तामप्यसौ पावकः ॥ १२ ॥ ततश्च- कथं वा राकायामिह नहि समायाति गगने शशाङ्को रात्र्यर्धं गतमिति मिथो हन्त गदताम् । नितान्तं तिथ्यर्क्षसंग्रह्णगणनव्याकुलधियां जनानां संजाताः कतिचन महान्तः कलकलाः ॥ १३ ॥ हा हा नः प्राणनाथः क नु खलु विगतः संत्यजन्कष्टमस्मा- नित्थं तारावलीनां क नु मम जनको हन्त हन्तेति चान्द्रेः ।