पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वाहासुधाकरः। आहारो हन्त हा हा गत इति च सुराणां नितान्तातुराणां वाक्यैरश्रुप्रवाहैरपि च सुरकुलं व्याकुलं संबभूव ॥ १४ ॥ अथ शतमखचतुर्मुखप्रमुखैरखिलैरमरैस्मदापन्निवारणप्रवीणो ना. रायणान्नान्यः कश्चिदिति निश्चिन्वानैरनवरतस्तुतिरवमुखरितहरिद- न्तरालैः संचिन्तितो भगवानम्बुजाक्षः। विज्ञायाथ दयानिधिः स भगवानाकाङ्ज्ञितं नाकिनां सद्यः प्रादुरभूदपारमहिमा मन्दस्मितार्द्राननः । नीलाम्भोधरजालकोमलतरैरानन्दयन्नङ्गकै- श्चन्द्रालोकनकौतुकं सुमनसां वक्त्रेन्दुना पूरयन् ॥ १५ ॥ स्वाहाग्रस्तं मृगाङ्कं तुलितमहदकूपारगाम्भीर्ययासौ बुद्ध्या निध्याय देवान्मुकुलितकरपङ्केरुहानेवमूचे । विज्ञातं वः सुरेन्द्राः सकलमिह मया कारणं मत्प्रणामे संजातं घोरघोरं व्यसनमिदमहं नूनमुन्मूलयामि ॥ १६ ॥ यूयं यात बहिः क्षणं हुतभुजा संभाषणं कुर्महे नास्माकं वचनं तदन्तरगता स्वाहापि गृह्णातु सा । षट्कर्णश्रुतमन्त्ररक्षणविधौ को वा विदग्धः पुमा- नित्थं नीतिविदां वचो न किमिदं युष्माभिराकर्णितम् ॥१७॥ नारायणेन गदिता मुदितानुभावा- मेवंविधामथ गिरं विबुधा विचार्य । स्वाहागतं निखिलचापलमाकलय्य व्रीडापरा नतमुरारिपदाः प्रयाताः ॥ १८ ॥ स्वाहां विन्यस्य याते कुहचन दहने पार्श्वभागं मुरारे- र्देवाः स्वाहासमीपं निभृतमुपगतास्तस्थुरत्यन्तगूढाः ।