पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

खाहासुधाकरः। us अनन्तरममृतगुरेवमवादीत्--- पश्य त्वं भृङ्गपोतं कमपि कुमुदिनीतीरभागे चरन्तं सौरभ्यं मन्दवातैरुपहृतमतुलं किंचिदास्वादयन्तम् । एतस्या हन्त माध्वीरसमतिमधुरं जातु पातुं नितान्तं मुग्धे वक्त्रे विकासं दिवसपरिणतिप्राप्तमाकाङ्क्षमाणम् ॥ ७ ॥ अथ स्वाहयाप्येवमभिहितम्- रविरयमस्तं यातः समागतो हन्त हन्त चन्द्रोऽयम् । याति विकासमपीयं कुमुद्वती किं विलम्बसे भृङ्ग ॥ ८॥ अनयोरेवमादिभिः संल्लापैरुल्लासितमल्लिकायुधविलासयोः सपदि परस्परगृहीतहस्ताम्बुजयोरालिङ्गनचुम्बनाडम्बरैः संभृतानन्दयोरतिमधु- रमघरबिम्बमास्वादयतोरतिकोमलवदनकमलसमवलोकनविधुतविरहवे-- दनयोरन्तरान्तरा ससंभ्रमज्वलनसमागमनावलोकनव्यापृतैकैकनेत्रयोः स्वाहाचन्द्रमसोर्मन्दमन्दनिष्पन्दमानमञ्जुलतरमिलितसीत्कारमनोहरा मञ्जुशिञ्जानवलयनूपुरमेखलागुणा दशननिपातविदलितसकलावयवाः प्रसृमरधर्मलेशमिलितनिखिलशरीराः शनैर्लायमानसकलावयवाः सु- रतोत्सवाः संबभूवुः । ततश्च- भूयादेवं प्रभाते दिवसपरिणती चावयोरङ्गजन्म- क्रीडाभेदो निगूढो मुहुरिति सदयं सस्पृहं सप्रमोदम् । संभाषन्तौ युवानौ विरहहुतवास्तदेहावभूतां स्वाहा हा हन्त पश्चादपि च हुतवहग्रस्तदेहा बभूव ॥ ९ ॥ तदनु तयोरेवमेव चौर्यसुरतमनुसेवतोरनुक्षणविजृम्भिताभिला- षयोः कदाचिदप्यपरिपूर्णमनोरथयोः स्वाहासुधाकरयोराज्यधारयेव महा- नलो मदनानलः प्रतिक्षणं समजृम्भत ।