पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथ कदाचित्- संध्योपासनकर्मणे सपदि तां निक्षिप्य कान्ते गते चन्द्रस्तामवलोक्य मन्मथशरैः संतापितात्मा चिरम् । मल्लीचन्दनमन्दमारुतरसेष्वा हन्त निन्दापरः कष्टं काश्चन वासरानगमयत्प्रत्येकमब्दोपमान् ।। ४ ॥ तदनु कदाचन दिवसावसानवेलायां मन्दमन्दमायाति च मलय- शिखरिशिखरशेखरितसुन्दरतरचन्दनतरुमचुलतरमञ्जरीविसृमरमकर- न्दबिन्दुभरणमन्दगमने मन्द पवने, झंकुर्वाणे च संध्यासमयविन- मदुन्नमदतिकोमलदलपेशलसकलकमलकुमुदकुलमधुरतरमकरन्दरस- तुल्यकालसमास्वादनजनितानन्दकन्दलितविरहिवर्गव्यलीके चञ्चरीके, वियुज्यमाने च विरहवेदनाविदीर्णहृदये समाक्रन्दवाचालिताशाचक्र- वाले चक्रवाके, संप्रयाते च कुहचन सहचरी निक्षिप्य विक्षेपादि- कर्मकृतादरे स्वाहासहचरे पुष्पायुधनिष्पादितपीडाकुल एष दोषाकरः कुमुदिनीरोहिणीभ्यामप्यविज्ञातवृत्तान्तं स्वाहया सनार्थीकृतमुटजा- ङ्गणमभिससार । दृष्ट्वा सा कामसेनापतिमतिसुकुमाराङ्गमारादकाण्डे चन्दं नारीजनानामतिशयसुलभादाकुला चित्तलौल्यात् । तस्थौ गत्वा गृहाभ्यन्तर1मररमुखेनास्य संचारयन्ती वक्त्रे मन्दस्मितार्द्रानतिमधुरसुधाशीतपातान्कटाक्षान् ॥ ५ ॥ किमिह बहुभिरुक्तप्रक्रमैः पक्ष्मलाक्ष्याः सकलभुवनबन्धोश्चातिमुग्धाः कटाक्षाः । हृदयहरणदक्षाः प्रोचुरन्योन्यमेत्य प्रणयगतिमशेषां दूतिकातुल्यरूपाः ॥ ६॥ १. कपाटरन्ध्रेण.