पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

one स्वाहासुधाकरः। एतावानस्ति विशेषः- ब्रह्मादयस्त्रयो देवाः सदा दधति वल्लभाम् । दधाति याममात्रं न पावकः संध्ययोर्द्वयोः ॥ ३ ॥ विजेजीयते. एतत्स्तोत्रनिर्माणकलिंगतदिवससंख्या तत्रैवान्तिमश्लोके आयुरारो- ग्यसौख्यम्' इति पदेन प्रकाशिता. (१७१२२१० इति गतकलिदिवससंख्या) इत्थं गुरुवायुपुरेशभगवच्छ्रीनारायणप्रसादसमवाप्तनिखिलामयापगमसमुज्ज्वलनि- जशरीरोऽयं देवालयनदीवास्तव्यराज्ञाभ्यर्थितः 'प्रक्रियासर्वस्व'नामकं पाणिनीय- सूत्रव्याख्यानरूपं कमपि ग्रन्थं निर्मितवान् . पुनः कदाचिदयं बालचन्द्रदर्शन- जनितकौतुकैर्भूदेवैः संप्रार्थितः 'कस्मात्कारणानिखिलैर्जनैरयं वासोविक्षेपपूर्वम- भिवन्द्यते इत्यस्मात्प्रबन्धरूपेणैव वक्तव्यम्' इति द्रुतमेवेदं स्वाहासुधाकरनामकं प्रवन्धरत्नं च कृतवान् . अयं वर्षशतत्रयान्न प्राचीनः. तस्मादेतच्छोकास्त्वन्य- ग्रन्थेषु नोदाहृताः एतेनायं प्राचीन इति न परिशङ्कनीयम् . "लोकाम्बिका दिशतु मङ्गलमस्मरकुलदैवतम्". सोपोद्धातोऽयं प्रबन्ध उत्तरमलबार(केरल)देशान्त- र्वर्ति कटथनद'राजेन श्रीमदुदयवर्मणा केरलीयलिपितो भूयसा श्रमेण देवनागरा- क्षरैर्विलिख्य प्रेषितः, अतो वयं तस्य राज्ञो महान्तमुपकारभार शिरसा धारयामः. आशास्महे च तद्देशप्रसिद्धनानाकाव्यनाटकभाणादिप्रेषणेन सर्वदैवास्मानुपकारि- ष्यति रसिकशिरोमणिमहीपतिः. एतत्कविप्रणीतः कश्चन 'चण्डिकासप्तति'नामको देवीस्तवोऽस्तीत्यपि श्रूयते. १. संपूर्णश्लोकस्वित्थम्-'अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नाराय- गीयं श्रुतिषु च जनुषां स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरा- रोग्यसौख्यम् ॥' अत्र 'आयुरारोग्यसौख्यम्' इत्यस्मात्पदादार्यभटसिद्धान्तादिज्यो- तिःशास्त्रप्रसिद्धेन वाररुचेन कटपयादिक्रमेण ग्रन्थनिर्माणसमये (१७१२२१०) एतावती गतकालदिवससंख्यासीदिति ज्ञायते. तेन १५९० मिते निस्ताब्दे क- विरयं 'नारायणीयं' नाम स्तोत्रं प्रणीतवान् . २. प्रक्रियासर्वस्वस्येदं मङ्गलाच- रणम्-‘रासविलासविलोलं स्मरत मुरारेमनोरमं रूपम् । प्रकृतिषु यत्प्रत्यय- वत्प्रत्येक गोपिकासु संमिलितम् ॥' इति.