पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । सीताजानिरवादीदवनीमखिलां वहन्भुजाभोगे । पृथ्वीपतिरिति लोका मा ब्रूध्वं मामतः क्वापि ।। ९६ ॥ पृथ्वी श्वश्रूरूपिणी, तत्पतित्वमयुक्तमिति ॥ अन्याङ्गनो........कृतोपपत्तिमशोकमालां बकुलस्रजं च । प्रियेण दत्तामधिकादरेण न मानिनी स्वीकुरुते कदापि ॥ ९७ ॥ सपत्नीचरणताडनगण्डूष... त्याशङ्किनी ॥ आसीत्कर्पटिगोत्रसागरसुधाधामा सुकामाद्भुतः श्रीविद्याधर इत्यशेषभुवनप्रख्यातनामामृतः । यः केदारपदारविन्दयुगलप्रत्यग्रपूजाविधि- प्राप्ताशेषपवित्रभव्यविभवैः सार्थीकृतार्थिश्रमः ॥ ९८ ।। तत्पुत्रः सर्वमित्रं सरसकविकुलस्तूयमानोरुकीर्ति- र्विख्यातो जालपाख्यो जगति विजयते टाकवंशप्रशस्यः । विष्णुदैत्येन्द्रयुद्धव्यतिकरसमये व्याकुलत्वास्वभार्यां लक्ष्मी निक्षिप्य यस्मिन्विहरति दिनशः स्वेच्छया स्वस्थचित्तः९९ तस्माज्जातः सुजातो निजगुणमणिभिः प्रीणिताशेषलोकः कोकाहंकारहारिस्मितमहितमुखष्टाकवंशावतंसः । भाति श्रीनागराजो परनृपतिशिरोदर्शितोद्यत्प्रतापो राजेते यं समेते विगलितकलहे वाक्च पद्मालया च ॥ १०॥ भारत्यां यदि पुंस्त्वमामरतरुव्राते विवेकोऽस्ति चे. त्साङ्गत्वं यदि मन्मथे सकलता नित्यं शशाङ्के यदि । सिंहे चेन्नरता जितारियशसो भावज्ञचूडामणे- स्तत्तत्सद्गुणतोपमानघटना स्यान्नागराजप्रभोः ॥ १०१॥