पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ काव्यमाला। कालस्य च्छुरिकेव हा तव करे संवर्तिका केतकी वैयोगी ककचद्वयीव सखि मे चित्तं परं कृन्तति ॥९॥ अवधिभूतवर्षाकालशमनात् ॥ स्मरमतसचिवं कलाविदग्धं भज सखि तं तरुणं शशाङ्ककान्तम् । इति गिरमधिगम्य दूतिकाया मुखमबला खकरेण सा पिधत्ते ।।९१ ॥ आत्मनि पद्मिनीभावप्रकटनेन चन्द्रगुणान्विते तरुणे स्नेहराहित्यं प्रका. शयति ॥ उद्याने स्मरसांपरायविवशामालिङ्गय गाढं प्रिया- मागच्छन्मदवारणेश्वरभयादन्यत्र नीत्वा युवा । बुद्ध्वा यां पुनरन्तरायमखिलं स्नेहादवादीद्रुतं श्रुत्वा सा निजजीवितेशविषये स्नेहच्छटामत्यजत् ॥१२॥ हस्तिदर्शनेनान्यासक्तत्वं द्योत्यत इति । अथवा पयोधरोरुगमनविजितकु- म्भस्थलकरगतिरात्मनि पराजयमाशङ्कय कुप्यति ॥ जनकतनयां हृत्वा रागागते दशकंधरे तदुरुबिरहज्वालाजालाकुलीकृतविग्रहः । रघुपरिवृढो नाधो नोर्ध्वं न तिर्यगवेक्षते मुकुलितदृगम्भोजद्वन्द्वः समाहितवस्थितः ॥ ९३ ।। श्वश्रूस्त्रवंशजनपरिलब्जया ॥ पतिव्रताहं प्रमदासु रूढा लोकापवादो नितरां गरीयान् । उल्लङ्घय शीतं बज वर्तमानमायाहि पूर्व प्रिय भाविशीतात् ॥ ९४ ॥ अधरस्फुटनपरिहारः॥ मलयाद्रिसमुद्भूते मन्दं वाति समीरणे । निनिन्द वानरान्काचित्कामिनी यामिनीमुखे ॥ ९५ ।। मलयादिसमीरणेन विरहिणी दुःखं प्राप्नोति ॥