पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। श्रीराम रामेति पदं मनोज्ञं वक्तुं मतिं हन्त विधाय कश्चित् । विचिन्त्य किंचित्पुनराशु चित्ते संदेहशाली स शनैर्व्यरंसीत् ।। ६४॥ सुरतावसरे स्वेष्टदेवध्यानमयुक्तमिति रीतेरिति ॥ श्रीराघवे दिग्विजयाय वेगाद्विनिर्गते चापभृतां पुरोगे । शून्यान्यभूवन्सुदृशां शिरांसि कासां च कासांचन वीक्षितानि ॥६५॥ रिपुस्त्रीणां देवाङ्गनानां च ॥ सङ्ग्रामं त्वयि देव कुर्वति सुरास्तत्कौतुकालोकिनः पश्यन्तस्तव विक्रम निजशिरःकम्पं न के चक्रिरे । लोकेशादिकपालकोटिकलितां मालां समुत्तारय- न्मीतश्चारुमतिर्व्य़लम्बत पुनः खण्डेन्दुमौलिः क्षणम् ॥६६॥ निजशिरःकम्पनेन सुधांशोः सुधाक्षरणान्मुण्डमाला सजीविता भवि- व्यतीति ॥ समुद्धतानां दनुजेश्वराणां विमर्दने यस्य चकास्ति धैर्यम् । स श्रीपतिः किं निजनामधेयमुहूर्तपद्भयो नितरां बिभेति ॥ ६७ ॥ स्वर्लोकः सर्वोऽप्याक्रम्यत इति । संमानिता कापि रमा समाना कान्तेन साकं मदिरां पिबन्ती । बिम्बं सुधांशोः प्रतिबिम्बिताङ्गं नखेन काचिञ्चषके लिलेख ।।६८॥ यतोऽयं नखाङ्कितः स्वकान्तामानेन विरहव्यथां वेत्तीति ॥ पङ्केरुहाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती । उदातुमादाय करेण वीणामेणाङ्कमालोक्य शनैरहासीत् ॥ ६९ ॥ चन्द्रमृगोऽपि गीतप्रिय इति । खयि प्रवृत्ते मृगयाविनोदे नवाम्बुजाभेक्षण नागराज । मीतिर्न जाता हरिणाङ्गनानां प्रवर्धते स्म प्रकटः प्रमोदः ॥ ७० ॥ कामभ्रान्त्या ।। १. समुद्धृतोऽयं श्लोकः शाईधरपद्धती प्रहेलिकादिप्रकरणे.