पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । उत्थायाशु ससंभ्रमं बहुतरां भक्तिं दधाना पुन- स्तत्पादं मणिकङ्कणोज्ज्वलकरा नैव स्पृशत्यद्भुतम् ॥ ५८॥ अहल्यावञ्चरणस्पर्शमात्रेण कङ्कणमणयोऽपि योषितो मा भूवरिति । गत्वोद्यानवनस्थलीं सुनयना प्रोद्यद्वसन्तागम- प्रोत्फुल्लाखिलचूतचम्पकमुखं मारुड्विशेषाकुलम् । आदायातिमनोज्ञमद्भुतरसं किंचित्फलं पाणिना तन्मध्यं च विलोक्य शङ्कितमना हस्तेऽकरोदर्पणम् ॥ ५९ ॥ दशनपङ्कौ दाडिमबीजोपमास्ति न वेति विलोकयितुम् ॥ फूत्काराधिकभीषणास्यभुजगप्रत्याभूषावली- भाखद्वर्ष्मणि भुतकोटिघटितप्रौढस्तवैः संस्तुते । संध्याताण्डवकर्म खण्डपरशौ कर्तुं प्रवृत्ते सति प्रत्याशं प्रतिपर्वतं समभवन्मेधैर्विना वृष्टयः ॥ ६० ।। अमरिकासमये शिरःस्थितगङ्गाजलग्रसरात् ।। निशाकरास्ये निशि कामतप्ता विधुतुदं निन्दसि किं वृथैव । दोषं न जानासि परं मुरारेः शिरोऽस्य कोपात्सखि येन कृत्तम् ॥६१॥ उदरासंभवे जरणाभावात् ॥ धाराधीश महीमहेन्द्र भवता प्रख्य़ातवीरव्रतं सङ्ग्रामे निजवैरिवृन्दमसमं हन्तुं तपः कुर्वता हानिं यस्य विचार्य निर्जरगणः खिन्नस्तदेवाखिलं तुल्यं प्रेषयति स्म रक्षितुमहो यन्न त्वया रक्षितम् ॥१२॥ एतचिहताः सर्वे स्वर्गे समागन्तारः। ततश्च वद्वरणे सुराङ्गना यास्यन्ति चेति तपोभङ्गाय ता एव प्रेषिताः। निशाकरेणातिनिपीडिताङ्गी दिवाकरं कापि परं निनिन्द। तदन्तिके सिंहमवेक्षमाणा पुनः समाश्वासयति स्म चेतः ॥ ६३ ॥ अनुदयादथवा कलाक्षये चैतस्मादेव समुपजीवतीति ।