पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला तत्राहं सलिलं पिबामि तरसेल्युवाँ भ्रमन्ती सुदृ- क्तादृग्भूतसरोवरं न लभते को वात्र हेतुर्वद ॥ ५३ ।। सर्वत्र निजवदनप्रतिबिम्बावलोकमात् ।। आलिङ्ग प्रतिवाचमुद्गिर सुधाकण्ठि क भूयो वयः कोपं मुञ्च मयि प्रसीद सुभगे नैवं विधास्ये पुनः । पश्य श्वश्रु कथं वदत्ययमहो मानोन्नतां सारिका- मेवं मानयितुं शुको हि भवने दैवस्य चित्रा गतिः॥५४॥ निशासमयोक्तं शुकाभ्यस्तं पतिवाक्यं ब्याजेनाच्छादयति ॥ सिक्तं चन्दनवारिमिः कमलिनीशय्यादलं कोमलं हस्तस्थस्य तया मृणालवलयस्यावेष्टितं तन्तुमिः । आलेख्यं त्विदमेव यद्दयितया दत्तं स्वहस्तेन मे लेखस्तिष्ठतु दूरतः किमधुनाप्याकर्ण्यते वाचिकम् ॥५५॥ विरहे सतीदृशस्थले स्वस्य निर्वाहाभावात् ॥ दृष्टोऽयं सरितां पतिः प्रियतम कास्ते स सेतुः क्व वा सेतुः केति मुहुर्मुहुः सकुतुकं पृष्टे परं विस्मिते । अत्रासीदयमत्र नास्ति किमिति व्यग्रे निजप्रेयसि व्यावृत्तास्यसुधानिधिः समभवन्मन्दस्मिता जानकी ॥५६॥ खमुखचन्द्रदर्शनक्षुब्धजलधिकल्लोलैराच्छादितस्य सेतोः प्रकटनाय मु- खन्यावृत्तिः॥ घवल्य दशनश्रेणिं बिम्बोष्ठि न शोणता गताद्यापि । इति दर्शितमुकुराभिः सखीभिरायास्यते मुग्धा ॥ ५७ ।। अधरसंनिधानजनितारुणतानपायिनीति ।। श्रीरामे मृगयाविनोदविपुलप्रीतिप्रभूतीभव- सखेदाम्बुकणावृतास्यकमले सद्मागते जानकी ।