पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । धम्मिल्ले सखि मल्लिकास्रगुचितैरेतैः सुधादीधिते- र्मन्ये खास्यजितस्य जेतुमधुना ज्योत्स्नामिमां वाञ्छसि ॥४७॥ चन्द्रोदये श्वेताभरणैरलक्षिता व्यभिचाराय गन्तुमीहस इति वर्णनव्या- जेन प्रकटयति ॥ ब्रज दूति समर्प्यतां भवत्या नवताटङ्कयुगं करे तदीये । इदमेव निवेदयिष्यतीमां मदवस्थामलमत्र पत्रलेखैः ॥ ४८॥ कजलमिश्राश्रुकणिकाङ्कितत्वेन तस्य सवर्णतेति ॥ कृतानि शान्त्यै विरहव्यथायास्तया सखे कान्यपि भूषणानि । गुणान्वितानीति तदङ्गसङ्गादन्तःस्थितं सारमिवोद्गिरन्ति ॥ १९॥ मृणालानि फेनिलाननानीति ।। श्रीरामचन्द्रे दशवक्रपुर्या मार्गाय वारांनिधिबद्धकोपे । आग्नेयमस्त्रं गुरु संदधाने मेनागिरीन्द्रौ चकितावभूताम् ॥ ५० ॥ जलधिमध्यस्थितमेनाकाख्यपुत्रनाशभीत्या ॥ चन्द्रोदये जृम्भति कर्तुकामे किंचित्प्रिये प्रोद्धतजातकामे । विलोक्य किंचिन्मणिसौधभूमौ निक्षिप्य काचिद्वसनं ललज्जे ॥५१॥ चन्द्रप्रतिबिम्बाच्छादनेऽपि ज्योत्स्नायास्तादवस्थ्येन नग्नस्वाङ्गदर्शनात् ॥ उक्त कार्यमभून्नवेति किमिह प्रष्टव्यमेतत्त्वया हन्तानुक्तमपि प्रसाधितमहो कृत्यं खबुद्ध्यैव मे । तद्दूति त्वद्दतेअस्ति का मम सखीत्याख्यातमात्रैव सा सव्रीडा मुहुरम्बरं नयनयोरन्तेन किं वीक्षते ॥५२ ॥ यन्मदीयमम्बरं तेन नीतं तत्त्वया परिवृत्य पुनरानीतमिति ॥ यस्मिन्सुस्फुटरश्मिपुञ्जविलसच्छीस्फाटिकग्रावमा- तुल्याच्छाम्भसि चित्तहारिणि सरोमध्ये न पङ्केरुहम् ।