पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। उद्यानवाटीषु कदापि बाले मा गास्त्वमेकैव यथा गतेऽह्नि । क्वचिवचित्कण्टकिनां तरूणां सङ्गेन दुःखी स्तनभार एषः ॥१२॥ उद्यानगमननिषेधव्याजेन पत्युः पुरः स्तननखाङ्कगोपनम् ॥ अक्ष्णोरञ्जनमोष्ठयोश्चरणयोस्ताम्बूललाक्षाकृतो रागः पत्रलता कपोलविषये देहे घनं चन्दनम् । आसां तिष्ठति सर्वदा मम पुनर्दृष्ट्वा कदाचित्क्षणं श्वश्रूः किं विदधे वृथैव दधते दुःखं सपत्न्यो यदि ॥ ४३ ॥ सपलीशृङ्गारवर्णनव्याजेन स्वसौभाग्यप्रकटनम् । अत्र पदे पदे भावाः ॥ पीनोत्तुङ्गघनस्तनी ब्रज मुहुर्लीलागृहाभ्यन्तरं त्वामुद्वीक्ष्य चिराय हन्त कलिताशङ्कः शशाङ्कोऽधुना । एतच्चेतसि मंस्यते सकुतुकोत्प्रेक्षः किमासीदसौ वस्मीकादपि विस्मयी बहुगुणो वल्मीकजन्मा मुनिः ॥४४॥ चन्द्रदर्शनेऽपि त्वत्कुचचक्रवाकयुगमवियुक्तमिति रामशापस्यान्यथात्वेन वाल्मीकेर्निन्दा ॥ शृणु नागराज धृतखङ्गभीषणे भवति प्रगल्भरिपुखण्डनोद्यते । विचरत्तरङ्गशतशोभिताकृतिर्जलधिनितान्तमुपयाति संमदम् ॥४५॥ नवीनरुधिरनदीसंगमाशया ॥ देहे घनश्चन्दनचन्द्रलेपो बिम्बाधरे यावकरागयोगः । प्रातः कृतोऽयं चतुरे भवत्या तन्वङ्गि शोमां त्वयि का तनोति ४६ अवेलाशृङ्गारेण त्वया रतिचिह्नाच्छादनं कृतमिति द्योतयति । अथवा काकुवाक्यैरसंयोगादसौभाग्यं ख्यापयति ॥ हारस्तार उदारमौक्तिकमयं सीमन्तसच्चित्रके वासश्चन्द्रसितं तनौ रुचिकरो लेपो घनश्चान्दनः ।