पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । उदितः शनकैर्निशाधिनाथो वनितानां वदनानि वीक्षमाणः । शुचिमौक्तिकभूषणातिभीतो गणनायां निरतो नु तारकाणाम् ॥३६॥ मुखेन निर्जित्य बन्दीकृततारकाभ्रान्तिर्मौक्तिकेषु ।। आलोकयन्ती शशिपूर्णबिम्बमाशामुखे दैवतनायकस्य । संचिन्त्य किंचिन्मनसैव भीता धत्ते रतिं चम्पकमालिकासु ॥ ३७ ।। चन्द्रोदये मुकुलितपद्मत्य़ागिनो मधुपा मन्मुखे पतिष्यन्तीति । किं मौग्ध्यादनुतप्यसे किमधिकं नेत्रे क्रुधेवाश्रुभि- व्य़ाप्नोषि त्यज वीक्षणं प्रतिदिशं प्रेम्णो हि नानागतिः । आलिं निन्दसि किं वृथा खपदयोरालक्तकं नेक्षसे सर्वत्रातिनिषिद्धमेव हृदयं किं भाषसे निष्ठुरम् ॥ ३८ ॥ सुगमम् । पदे पदे भावाः ॥ कान्तः कान्तकरः परः प्रकृतिमप्य़ङ्गीकरोत्य़ेव य़- स्त्वञ्चित्तानुगया तया सरलया युक्ते पदे स्थापितः । सोऽयं संप्रति नाथ किं प्रणतिभिर्नीतस्त्वया नीचतां तेनायुक्तविधायिता हि भवतः स्पष्टैव दुष्टाशय ॥ ३९ ॥ तस्यास्तिलकरत्वल्ललाटं गतो मत्पदमानीत इति ॥ पश्यैनं पुरतः स्थितं प्रियतमं मान्याः सखीनां गिरः किं जातासि पराङ्मुखी मणिगृहे मुग्धेऽत्र को वा जनः । इत्यालीवचनेन कोपकलुषा काचिच्चिरं मानिनी दीर्घोष्णं निपुणा मुहुर्मुहुरसौ निःश्वासमेव व्यधात् ॥ ४०॥ प्रियप्रतिबिम्बाच्छादनायाग्न निःश्वासाः ॥ हारे संदर्शिते यूना कम्पयन्त्या शिरो मुहुः । प्रसारितः करेणोच्चैः कचभारो मृगीदृशा ॥ ४१ ।। मन्मनस्त्वयि स्वच्छमिति तरुणेन ज्ञापिते तया मलिनमिति ज्ञापितम् ॥