पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। उत्तार्य काञ्ची शयने विमुच्य यत्किंचिदाच्छादयितुं कयाचित् । ऊचे तदेवोषसि सालिवर्गं पदच्युतो हि क ह ते तुरङ्गः ॥ ३०॥ शब्दभयादुपरि सुरते चेयमुत्तारितेति ॥ काचित्साश्रुमुखी वियोगविधुरा धृत्वा करे लेखनीं सर्वस्यां निशि कामलेखमखिलं शून्या लिखित्वा पुनः । कान्ते प्रेषयति स्म सोऽपि चतुरो निर्वर्णमालोक्य तं साकं दुःखमुदौ चकार सहसा पक्षित्वमाकाङ्क्षते ।। ३१ ॥ ईदृशीमवस्थां सा प्राप्तेति दुःखम् । मयि सुतरां प्रीतिं सा धत्त इति हर्ष । अन्यच्चान परे पदे भावः॥ तत्कालयोग्याभरणा व्रजन्ती काचित्समीपे हृदयेश्वरस्य । विलोचने नाञ्जयति स्म तारं न चापि हारं हृदये न्यधत्त ॥ ३२॥ सती अन्तरभयात् । असती व्यभिचारप्रकटनभयात् । अथवा विशालयो- रक्ष्णोरञ्जनेन महती चेला स्यात् । हारः कामाग्निना दग्धो भविष्यतीति ॥ ईषदुल्लसितमिन्दुमण्डलं पश्य चूतनवपल्लवप्रभम् । अङ्गतां हरिदिगङ्गनामुखे भूषणत्वमुपयाति चाद्भुतम् ॥ ३३ ॥ ललाटत्वं तिलकत्वं च ॥ पुष्पेषोरिषुभिर्विभिन्नहृदयः कान्तां मुहुश्चिन्तय- न्पान्थः कोऽपि निदाघभाखति नभोभागं गते मध्यमम् । श्रान्तोऽप्येष पिपासितोऽपि पयसे धावन्नपीतस्ततः शुष्कं वीक्ष्य सरश्चिराय महत्तीं धत्ते मुदं चेतसा ॥ ३४ ॥ अत्र सरोजाभावेन पुष्पेषोरिषुसंकोचाद्विरहिणः प्रमोदोदयः ॥ परिपाकसमयपाण्डोः परिणतपत्रालिपरिहृतार्करुचेः। त्वय्यनुरागातिशयादिक्षोः फलमीक्षते तन्वी ॥ ३५॥ फलितामिक्षुवाटीमुत्पाततया परिहरन्तीति संकेतभङ्गाय़ेत्य़सतीपक्षः सतीपक्षे तु तादृश्या वाटिकाया दाहस्यापि संभावितत्वेनेक्षुधन्वनो धनुरु- च्छेदो विरहिणीप्रीतिकृत् ॥