पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । १९ किं कुर्मः सखि नर्मकेलिषु मया दष्टे रसेनाधरे रुष्टोऽयं गमनोद्यतस्तदधुना पन्थानमानीयते ॥ १५॥ धवलो हि प्रतोदेन प्रेरितः पन्थानमायाति ॥ प्राप्ते वसन्तसमये पथिकस्य कान्ता श्रान्तान्तरा पिकगणा निनदन्ति यत्र । उत्थाय तत्परिसरं सहसैव गत्वा गातुं मतिं कृतवती कमनीयकण्ठम् ॥ १६॥ मत्स्वराकर्णनेनेतः सन्नपा यास्यन्ति, मूका वा भविष्यन्ति ॥ जलदानवलोक्य निर्गता नगरोद्यानसुकेलयेऽङ्गनाः। पुनरागमनेषु ताः कथं घनवृष्ट्यापि भजन्ति न त्वराम् ॥ १७ ॥ शीघ्रगमनेन श्रमश्वासादिना गुरुजनस्वासतीत्वप्रतीतिर्मा भूत् । अथवा व्यभिचारपरामृष्टचन्दनलेपादिभूषागोपनाय धनवृष्टयेत्यसतीपक्षः ॥ पत्रावलीचित्रकपोलपालिं प्रातः सपत्नीमवलोक्य काचित् । तुतोष लाक्षाक्तमनाप्तनिद्रं पुनः प्रियं वीक्ष्य विषादमाप ॥ १८ ॥ पावलेरविनाशादनया संयोगो नाभूदिति तुतोष । सर्वस्यामपि निशायां प्रीतिबाहुल्यादतिपादपतनैः संमानितापि मानमियं न मुमोचेति विषादमाप । स्मरातुराङ्गी प्रियविप्रयोगे शीतोपचारं परिह्रत्य सर्वम् । सुखेप्सया सर्वगतान्सिषेवे काचित्करानेव सुधाकरस्य ॥१९॥ यस्मादेते मत्मियसंगताः सन्तीति ।। अन्यास्ताः प्रिय योषितः प्रियतमं कण्ठे समालिङ्ग्य या याचन्ते हृदयस्थितं बहुकृपं तूर्णं पुनः संगमम् । याचे त्वामहमेतदेव न परं त्वन्मङ्गलाकाङ्क्षिणी प्रस्थाने मम जीवितेश्वर वृथा कण्ठग्रहं मा कृथाः ॥ २० ॥ तव प्रस्थानालिङ्गनेन क्षणेनापि मन्प्राणा यास्यन्तीति । ४ चतु.