पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८ काव्यमाला । मणिमयमण्डपमध्ये क्रीडन्ती कापि कामिनी विदुपी । अपराधेन विना तं निजचरणैस्ताडयामास ॥९॥ स्वप्रतिबिम्बं वीक्ष्य कामिन्यन्तरप्रतीतेः॥ शिरसि देवनदीं पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका । निबिडमानवती रमणाङ्गके क्वचन चुम्बनमारभते स्म सा ॥१०॥ क्रोधातिशयेन सविषो गलश्चुम्बितः ॥ सकलं स पुरा पीत्वा मुमोच मकरालयम् । मुनीन्द्रः किं न जानाति योषितां विरहव्यथाम् ॥ ११ ॥ पीतश्चन्द्रो मुक्त इति ॥ सौधस्थले विरहिणी विमले शयाना निर्मुक्तसर्वजलदासु शरन्निशासु ! देवाननिन्ददधिकं दनुजोत्तमांश्च दुग्धार्णवं च भुजगेश्वरमन्दरौ च ॥ १२ ॥ एभिश्चन्द्र उत्पादित इति । अपारं दुःखमापन्ना मदनार्ता वियोगिनी । कोकिलालिशशाङ्काद्या वर्धन्तामित्यभाषत ॥ १३ ॥ एतद्बाहुल्येनाचिरेण वियोगिनीनां वरणं संभाव्यते ॥ ज्याबन्धः शिथिलीभवत्वयममी शाम्यन्तु कोलाहलाः स्वामिस्त्वन्मृगयाविहारकुतुकासक्तिः क्षणं तिष्ठतु । इन्दौ स्प्रष्टुमुपागतेऽपि सहसा निःशङ्कमन्याङ्गनां मा मा मा स्पृश मा स्पृशेति चकिता यद्रोहिणी जल्पति ॥१४॥ मृगयाचकितमृगापगमाद्विमृगे चन्द्रे रोहिण्याः परपुरुषशङ्केति । तीक्ष्णाग्रं कठिनं कुचद्वयमिदं तन्वङ्गि यच्चोन्नतं तद्वक्षः परिहाय किं प्रियतमः पृष्ठे समालिङ्ग्यते ।