पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । वसन्तकाले चकिता नताङ्गी विज्ञाय चक्रीकृतचापदण्डम् । मनोभवं सौरभशोभमानैरपूरयत्पाणियुगं प्रसूनैः ॥ ३ ॥ मधुकरालिमौर्वीभङ्गो न भवत्विति ॥ काचिद्वसन्तसमये गत्वा पुष्पद्रुमावलीम् । नामुञ्चन्निजनिःश्वासवायुं वारिजलोचना ॥ ४ ॥ भृङ्गागमनभीत्या ॥ काचित्तृषार्ता वनिता निदाधे गङ्गां समभ्येत्य सुधासवर्णाम् । आदाय तद्वारि करद्वयेन विलोकयन्ती न पपौ किमेतत् ॥ ५॥ करकिसलयकान्तिक्रान्त्या शोणितशङ्कयेति ॥ प्राचीनस्मृतविरहव्यथातिभीतः काकुत्स्थः कृतकुतुकाक्षिमीललीलः । संपूर्णे शशिनि चिराय लग्नदृष्टेः प्रेयस्याः स्थगयति लोचने कराभ्याम् ॥ ६॥ कनकमृगवन्मृगाङ्कमृगमपीयं याचिष्यतीति भीत्वा ॥ मदनातुरापि लक्ष्मीरालिङ्गनलोलुपापि ललिताङ्गी । मा पश्य पश्य नाथेत्यवदन्मुरवैरिणं तत्किम् ॥ ७ ॥ हरौ पश्यति नेत्रीभूतः सहोदरश्चन्द्रो द्रक्ष्यत इति । तथा चण्डकरकि- रणाः कोमले वपुषि दुःसहा भवन्ति । यद्यस्मासु कृपापरोऽसि वनितावाकृते कौतुका- दाशु प्रोल्लसदुत्सवासु बहुशो रथ्यासु मा संचर । वाचस्ते सुभगोद्गिरन्ति च सुधामुच्चावचाः कर्णयोः प्रोत्तुङ्गा गृहभित्तयः समदनोल्लासा च नः स्वामिनी ॥८॥ उत्सवालोकनव्याजेनास्मत्स्कन्धमधिरुह्य त्वां पश्यतीति ॥