पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यं सुरारिं सरुषं सक्रोधमाजौ युद्धे क्षणं दृष्ट्वा स्रस्ताङ्गः सन्नचेष्टो भयहत- वचनः सन्नदोर्दण्डशाखः स्थाणुः शिवः स्थाणुः कीलक एव जातः । जडीभूत इति यावत् । तस्य महिषितवपुषः सुरारेर्ध्वंसाल्लब्धमानावकाशः पार्वत्या वामपादो वो दारुणं दुरितं सदैव शमयतु ॥ कुन्ते दन्तैर्निरुद्धे धनुषि विमुखितज्ये विषाणेन मूला- ल्लाङ्गेलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणेः । शूले लोलाङ्घ्रिपातैर्ललितकरतलात्प्रच्युते दूरमुर्व्यां सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥१०२॥ देव्याः कुन्ते दन्तैर्महिषेण निरुद्धे सति, विषाणेन धनुषि मूलाद्विमुखि- तज्ये विमुखीभूतमौर्वीके सति, लाङ्गूलेन देव्याः प्रकोष्ठे वलयिनि वेष्टिते सति, अत एव तत्कृपाणे तदीये खड्गे स्वपाणेः स्वहस्तात्पतिते सति, लोला- ङ्घ्रिपातैर्ललितकरतलाच्छूले दूरमुर्व्या भूमौ प्रच्युते सति । चण्डिका चरणतः सर्वाङ्गीणं लुलायं महिषं चूर्णयन्ती जयति ॥ इति महाकविश्रीवाणभद्दविरचितं चण्डीशतकं सटिप्पणं समाप्तम् ।

श्रीनागराजकविप्रणीतं भावशतकम् । शुभ्रं क्वचित्क्वचिदतीव सितेतराभं क्वापि प्रफुल्लनवपङ्कजसंनिकाशम् । तप्तं क्वचित्क्वचन शीतलमस्तु वस्तु कैवल्यसंसृतिपथानुगतं मुदे वः ॥ १ ॥ नागराजशतं ग्रन्थं नागराजेन तन्वता । अकारि गतवक्त्र श्रीनागराजो गिरां गुरुः ॥२॥ १. 'शूलात्'. २. नागराजनामा धारानगराधिपः कश्चिन्महीपतिरासीत. त- नाना तदाश्रितेन केनचित्कविना शतकमेतनिमितमिति शतकविलोकनाज्ज्ञायते.