पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । ४५ पङ्गुर्नेता हरीणामसमहरियुतः स्वन्दनश्चैकचक्रो भानोः सामग्र्यपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे । दर्पाद्भ्राम्यन्रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि- र्यस्याः पादेन नीतः पितृपतिसदनं सावतादम्बिका वः ॥९९॥ पतङ्गे सूर्ये इति त्यक्तवैरः प्रतिभटसमराश्लेषलुब्धः अत एव दर्पाद्रणक्ष्मां युद्धभूमिं भ्राम्यन्सुरारिर्यस्याः पादेन पितृपतिसदनं यमलोकं नीतः साम्बिका वोऽवतात् । इति किम् । हरिणामश्वानां नेता सारथिः पङ्गुः । स्यन्दनो रथोऽसमहरियुतो विषमाश्व एकचक्रश्च । एवं भानो रथो विधिना सामग्न्य- पेतः सामग्रीविकलः कृतः । इति हेतोः सूर्ये त्यक्तवैरः ।। युक्तं तावद्गजानां प्रतिदिशमयनं युद्धभूमेर्दिगीशां हीयेताशागजत्वं सुभटरणकृतां कर्मणा दारुणेन । यद्येष स्थाणुसंज्ञो भयचकितदृशा नश्यतीत्यद्भुतं त- द्दर्पादेवं हसन्तं सुररिपुमवतान्निघ्नती पार्वती वः ।। १०० ॥ दर्पादेवं हसन्तं सुररिपुं निघ्नती पार्वती वोऽवत्तान् । एवं कथम् । दि. गीशां गजानां दिग्गजानां युद्धभूमेः सकाशात्प्रतिदिशमयनं स्वस्वदिग्गमनं तावद्युक्तम् । यतः सुभटैः सह रणकृतामेषां दारुणेन कर्मणा मरणरूपेगा- शागजत्वं दिग्गजत्वं हीयेत । यद्येष स्थाणुसंज्ञः शिवो भयचकितद्दशोपलक्षि- तो नश्यति इत्यद्भुतम् । स्थाणोः पलायनमाश्चर्यमिति भावः ॥ स्रस्ताङ्गः सन्नचेष्टो भयहतवचनः सन्नदोर्दण्डशाखः स्थाणुर्दृष्ट्वा यमाजौ क्षणमिह सरुपं स्थाणुरेवोपजातः । तस्य ध्वंसात्सुरारेर्महिषितवपुषो लब्धमानावकाशः पार्वत्या वामपादः शमयतु दुरितं दारुणं वः सदैव ॥१०॥ 'प्रतिदिशगमनम्'. २. 'रणयुधाम्'. ३. 'या चैषां स्थाणुसंज्ञा भयत्र- कितदृशाम्'. ४. “यं दृष्ट्वा सस्तचेष्टः'. ५. स्थाणुदैलं तमाजी'; 'स्थाणुर्दैवं यमा- औ', 'स्थाणुदृष्ट्वा सुरारिम्'. ६. 'इव सभयम्'. ७. 'भवतां ध्वान्तमन्तर्हितार्कः'.