पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रणतलगतैरंशुभिः शोणशोभः । पुनः कथंभूतः। संन्यस्तान्यालीनानि च यानि रत्नानि । अर्थाद्देवमुकुटेषु । तेषां प्रविरचितैः करैः किरणैश्चर्चितः । यो हि देवतायै हविरुपनयति स दण्डवत्प्रणतो भवति । अत्र हविर्मांसपि- ण्डम् । तच्च शुक्लं रक्तं च भवति । क्वायं तीक्ष्णोग्रधाराशतनिशितवपुर्वज्ररूपः सुरारिः पादश्चायं सरोजद्युतिरनतिगुरुर्योषितः क्वेति देव्याः । ध्यायं ध्यायं स्तुतो यः सुररिपुमथने विस्मयावद्धचित्तैः पार्वत्याः सोऽवताद्वस्त्रिभुवनगुरुभिः सादरं वन्द्यमानः ॥९॥ त्रिभुवनगुरुभिर्ब्रह्माद्यैः सुररिपुमथने विस्मयाबद्धचित्तैरिति ध्यायं ध्याय ध्यात्वा ध्यात्वा यः स्तुतः सादरं वन्द्यमानश्च स पार्वत्याः पादो वोऽवतात् । इति कथम् । तीक्ष्णोग्रधाराशतनिशितवपुरयं वज्ररूपः सुरारिः क्व । अयं सरोजद्युतिर्योषितो देव्या अनतिगुरुः पादश्च क्व । महदन्तरमिति भावः ।। वजित्वं वज्रपाणेर्दितितनयभिदश्चक्रिणश्चक्रकृत्यं शूलित्वं शूलभर्तुः सुरकटकविभोः शक्तिता षण्मुखस्य । यस्याः पादेन सर्वं कृतममररिपोर्बाधयैतत्सुराणां रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गिणां क्षेमकारी ॥९८|| यस्याः पादेनामररिपोर्महिषस्य बाधया सुराणामेतत्सर्वं कृतं सा रुवाणी वः पातु । कथंभूतानां सुराणाम् । दनुषु दनुजेषु विफलं युद्धं येषां तेषाम् । कथंभूता रुद्राणी । स्वर्गिणां क्षेमकारी देवकल्याणकर्वी । एतत्किम् । वज्र- पाणरिन्द्रस्य वज्रित्वं वज्रकार्यम् । दितितनयभिदश्चक्रिणो विष्णोश्चक्रित्वम् । शूलभर्तुः शिवस्य शूलित्वम् । सुरकटकविभोर्देवसेनापतेः षण्मुखस्य कार्तिके- यस्य शक्तिता । वज्रादीनां कृत्यं देव्याश्चरणेनैव साधितमिति भावः ॥ १. 'अमरगुरोयोपितः'. २. 'ध्यात्वा ध्यात्वा'. ३. 'सावतात्'. ४. 'वीक्ष्य- माग.'; 'वन्दित्तायाः'. ५. 'दितिदनुजभिदः'. ६. सुरसमितिविभोः'. ७. 'दिति- तनयभृतः'.