पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । ४३ यस्या वामो महीयान्मुदितसुरमनाः प्राणहृत्पादपद्मः प्राप्तस्तन्मूर्धसीमां सुखयतु भवतः सा भवानी हतारिः ॥९॥ यस्था वामः पादपद्मस्तस्य महिषस्य मूर्धसीमां प्राप्तः सा मुदिनसुरमना हतारिर्भवानी वः सुखयतु । कथंभूतः पादपद्मः । सरभसं यथा स्यादेवम- लघु सुरारिं हन्तुं शीतांशुभाजां नक्षत्राणां मार्गमाकाशमुद्यन्नुत्पतन् । अत एव सचकितं यथा स्यादेवमुद्वृत्तारैर्नेवैरुन्मुखैरमरैवीक्ष्यमाणः । पुनः कथंभूतः । प्राणहृत् । अर्थान्महिषस्य ॥ मूर्धन्यापातभग्ने मिषमहिषतनुः सन्ननिःशब्दकण्ठः शोणाब्जाताम्रकान्तिप्रततधनबृहन्मण्डले पादपद्मे । यस्या लेभे सुरारिमधुरसनिभृतद्वादशार्धाड्घ्रिलीलां शर्वाणी पातु सा वस्त्रिभुवनभयहृत्वर्गिभिः स्तूयमाना ।।९५॥ यस्याः पादपद्मे मिषमहिपतनुः कपटमहिषः सुरारिर्मधुरसे निभृतस्य नि- श्वलस्य द्वादशार्धाङ्घ्रेः षट्पद्रस्य भ्रमरख लीलां लेभे सा त्रिभुवनभयहृत्स्व- र्गिभिर्देवैः स्तूयमाना शर्वाणी वः पातु । कथंभूने पादपद्मे । शोणाबदा- ताम्रा कान्तिर्यस्य, प्रततं प्रकर्षेण बिस्तीण घनं निबिडं बृहन्मण्डलमाभोगो यस्य तयोः समाहारस्तस्मिन् । कथंभूतं सुरारिः । मूर्धनि मस्तक आपातेन प्रहारेण भने सति मन्ननिःशब्दकण्ठः । अत एव निश्चलभ्रमरतुल्यतां गत ॥ पादोत्क्षेपाद्व्रजद्भिर्नखकिरणशतैभूषितश्चन्द्रगौरै- र्मूर्धाग्रे चापतद्भिश्चरणतलगतैरंशुभिः शोणशोभः । संन्यस्तालीनरत्नप्रविरचितकरैश्चर्चितः क्षिप्तकायै- र्यत्या देवैः प्रणीतो हविरिव महिषः सावतादम्बिका व: २६ यस्याः क्षिप्तकायैर्दण्डवत्प्रणमद्भिर्देवर्हविरिव संस्कृतं हव्यमिव महिषः प्रणीत उपनीतः साम्बिका वोऽवतान् । कथंभूतो महिपः । पादोत्क्षेपाद्र- जनिश्चन्द्रगौरैर्नस्वकिरणशतैर्भूषितः । पुनः कथंभूतः । मूर्धाग्र आपतद्भिश्च- १. 'सुरमहियतनुः'; "मिषतनुमहियः'. ६. 'कान्तिः', ३. 'लसन्मण्डल'. ४. 'मधुपमुनिमृत-'. ५. 'सर्वत्रिभुवन-'. ६. 'पद्मशोणः',