पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ काव्यमाला। स्थाणौ कण्डूविनोदो नुदति दिनकृतस्तेजसा तापितं नो तोयस्थाने न चाप्तं सुखमधिकतरं गाहनेनाङ्गजातम् । शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमेकं रुद्राण्यारोपितो वः सुखयतु महिषे प्राणहृत्पादपद्मः ॥ ९२॥ सर्वदेवपलायनाच्छून्यस्यां युद्धभूमौ इति वदति महिपे रुद्राण्या आरो- पितः प्राणहृत्पादपद्मो वः सुखयतु । इतीति किम् । स्थाणौ शिवे कीलके च यदि कण्डूविनोदः क्रियते तदा तं नुदति । यतोऽयं स्थाणुः स्थिरो नास्तीति भावः । नोऽस्माकमङ्गजातमङ्गसमूहो दिनकृतः सूर्यस्य तेजसा तापितम् , किंतु तोयस्थाने वरुणालये च गाहनेनाधिकतरं सुखं नाप्तम् । वरुणोऽपि पलाय्य गत इति भावः । तस्मादिमं माहिषं रूपं धिक् ॥ पिंषञ्छैलेन्द्रकल्पं महिषमतिगुरुर्भग्नगीर्वाणगर्वं शंभोर्जातो लधीयाञ्छ्रमरहितर्वपुर्दूरमभ्यूह्यपातः । वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारोऽड्व्रिपद्मो यस्या दुर्वार एवं विविधगुणगतिः सावतादम्बिका वः ॥९३॥ यस्या अङ्घ्रिपद्म एवं विविधगुणगतिरस्ति साम्बिका वोऽवतात् । कथं- भूतः । भन्नगीर्वाणगर्वं शैलेन्द्रकल्पं महिषं पिंषन् , अतिगुरुरपि शंभोर्लघी- याञ्जातः । पुनः कथंभूतः । श्रमरहितवपुः दूरमभ्यूह्योऽभ्यूहनीयः पातो गतिर्यस्य । यो हि गुरुर्भवति स श्राम्यति, दूरं च न याति । अयं तु श्रमर- हितवपुर्दूरपाती च । देवारेर्महिषस्य पृष्ठे वामः प्रतिकूल: । कनकगिरिसदां देवानां क्षेमकारः कल्याणजनकः ।। मार्गं शीतांशुभाजां सरभसमलघुं हन्तुमुद्यन्सुरारिं नेत्रैरुद्वृत्ततारैः सचकितममरैरुन्मुखैर्वीक्ष्यमाणः । १. 'कण्डूविनोदात्'. २. 'नः'; 'वः'. ३. 'एवम्'. ४. 'शीर्णगीर्वाणगर्वम्'; 'शीर्णगीर्वाणगर्वः'. ५. 'यातो गरीयान्'. ६. 'वपुर्व्यस्त उत्पात्य कोपात्'. ७. 'क्षेमकारो हि यस्याः पादोऽतुल्यप्रभाव.'. ८. 'असुरैः'.