पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम्। ४१ भावादेवं जयायां नुतिकृति नितरां संनिधौ देवतानां सव्रीडा भद्रकाली हतरिपुरवताद्वीक्षिता शंभुना वः ॥ ८९ ॥ देवतानां संनिधौ जयायां भावाद्भक्तिविशेषादेवं नितरां नुतिकृति सत्यां हतरिपुः सव्रीडा शंभुना वीक्षिता भद्रकाली वोऽवतात् । एवं कथम् । रहि- तगुणगतिर्नन्दकत्वगुणरहितः कृष्णस्य खड्गो नन्दकाख्यां प्रयातः । शत्रोर्भङ्गेन मुदितसुरस्तवैष वामः पादो नन्दकः ॥ एकेनैवोद्गमेन प्रविलयमसुरं प्रापयामीति पादो यस्याः कान्त्या नखानां हसति सुररिपुं हन्तुमुद्यन्सगर्वम् । विष्णोस्निः पादपद्मं वलिनियमविधावुद्धृतं कैतवेन क्षिप्रं सा वो रिपूणां वितरतु विपदं पार्वती क्षुण्णशत्रुः ॥२०॥ सुरिपुं हन्तुं सगर्वमुद्यन्यस्याः पादो नखानां कान्त्या इति हसति सा क्षुण्णशत्रुः पार्वती वो रिपूणां विपदं क्षिप्रं वितरतु । इतीति किम् । अहमेके- जैवोद्गमेनासुरं प्रविलयं प्रापयामि, विष्णोः पादपद्मं बलिनियमविधौ कैतवेन त्रिरुद्धृतम् ॥ खंड्गं खट्वाङ्गयुक्तं युवतिरपि विभो ते शरीरार्धलीना हास्यं प्रागेव लब्धं सुरजनसमितौ दुष्कृतेन त्वयैवम् । जाता भूयोऽपि लज्जा रणत इयमलं हास्यता शूलभर्त- र्दपादेवं हसन्तं भवमसुरमुमा निघ्नती त्रायतां वः ॥ ९१ ॥ दादहंकाराद्भवं शिवमेवं हसन्तमसुरं निघ्नती उमा वस्त्रायताम् । एवं कथम् । हे शूलर्भतः, तव खड्गं खट्वाङ्गयुक्तम् । हे विभो, युवतिर्भार्यापि ते शरीराध लीना । एवं दुष्कृतेन दुष्टाचरणेन त्वया सुरजनसमितौ देव- सभायां प्रागेव हास्यं लब्धम् । भूयोऽपि रणतो युद्धादियं लज्जा पलायनरूपा जाता । इयमलं परिपूर्णरूपेण हास्यता ॥ १. 'गतानाम्'. २. 'उद्गतेन प्रविजयमपरम्'. ३. 'सह विबुधरिपुम्'. 'हसितसुररिपुम्'. ४. 'उद्तम्'. ५. 'क्षिप्तम्'. ६. 'गङ्गा मौलौ विलग्नायुवति- रिति'; 'खटाझं खड्गयुक्तं युवतिरपि'. ७. 'लमम्'. ८. 'याता'. ९. 'हरम्'.