पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। श्रुत्वैतत्कर्म भावादनिभृतरभसं स्थाणुनाभ्येत्य दूरा- च्छ्लिष्टा बाहुप्रसारं श्वसितभरचलत्तारका धूतहस्ता । दैत्ये 'गीर्वाणशत्रौ भुवनसुखमुषि प्रेषिते प्रेतकाष्ठां गौरी वोऽव्यान्मिलसु त्रिदिविषु तमलं लज्जया वारयन्ती ८७ भुवनसुखमुषि गीर्वाणशत्रौ दैत्ये प्रेतकाष्टां प्रेषिते सति एतत्कर्म महिष- वधरूपं श्रुत्वा भावादनिभृतरभसं यथा स्यादेवं स्थाणुना दूरादभ्येत्य बाहु- प्रसारं बाहू प्रसार्य श्लिष्टा आलिङ्गिता, अत एव धूतहस्ता श्वसितभरचल- त्तारका गौरी त्रिदिविषु देवेषु मिलत्सु सत्सु तं स्थाणु लज्जया वारयन्ती सती धोऽन्यात् ॥ भद्रे स्थाणुस्तवाड्व्रिः क्षतमहिषरणव्याजकण्डूतिरेष त्रैलोक्यक्षेमदाता भुवनभयहरः शंकरोऽतो हरोऽपि । देवानां नायिके त्वद्गुणकृतवचनोऽतो महादेव एष केलावेवं स्मरारिर्हसति रिपुवधे यां शिवा पातु सा वः॥८८॥ रिपुवधे स्मरारिः शिवो यां केलौ क्रीडायामेवं हसति सा शिवा वः पातु । एवं कथम् । क्षता महिषस्य रणब्याजेन कण्डूतिर्थेन एतादृशस्तवाङ्गिः स्थाणुः अर्थान्नाहं स्थाणुः । स्थाणौ महिषस्य कण्डूतिशमनं प्रसिद्धम् । त्रै- कोक्यक्षेमदाता तवाङ्घ्रिः, अतः शंकरः । भुवनभयहरः, अतो हरोऽपि तवाङ्घ्रिः। हे देवानां नायिके, त्वद्गुणेन कृतं वचनं शब्दो यस्य । महत्त्वं त्व- द्गुणस्तेन जातवचनो महादेवः, अत एष तवाङ्घ्रिःर्महादेवोऽपि । महिषवधे- नान्वर्थत्वात्स्थावरादयः संज्ञास्तव चरणस्यैव युज्यन्ते, नास्माकमिति भावः ॥ खड्गः कृष्णस्य नूनं रहितगुणगतिर्नन्दकाख्यां प्रयातः शत्रोर्भङ्गेन वामस्तव मुदितसुरो नन्दकस्त्वेष पादः । १. 'ईदृक्कर्म'. २. 'शंभुनागत्य'. ३. 'बाहूपसादम्'. ४. 'कोद्भूतहस्ता'. ५, 'संतापितारी'. ६. 'पोषिते'. ७. 'गौरी वोऽव्यात्स्वरूपं त्रिदशपतिपुरो लज्जया धारयन्ती'. ८. 'एव'. ९. 'क्षेमदानात'. १०. 'देवानां नायकत्वाद्गुण-'; 'देवैब्रह्मादिभिस्त्वद्गुण-'. ११. 'स्मारारौ वदति रिपुवधे पार्वती वः पुनातु'.