पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। क्रीडां प्रीतसखीजनैः पितृगृहे संस्मृत्य रेवातटे मा खिद्यस्व मनोहराङ्गि सरलः कान्तोऽस्ति चित्तानुगः । सन्त्येवात्र जलाशयाः सुगहनाः सख्यश्च ताः पण्डिताः क्रीडन्त्यास्तव तेषु ताभिरनिशं विस्मृत्य तद्यास्यति ॥ २१ ॥ सुगमम् ॥ कान्तः क्वापि गतोऽस्ति कोपकलितः श्वश्रूजनैः संकुलं वेश्म स्तोकमिदं महोत्सववशात्सख्या गृहे याम्यहम् । मध्याह्नो विषमः सुपान्थ भवता तस्मान्निकुञ्जोल्लस- द्ग्रामस्योत्तरतः सरोऽस्ति ललितं किं तत्र न स्थीयते ॥२२॥ सुगमम् ॥ काचित्सरोजनयना रमणे स्वकीये दूरं गते सति मनोमवबाणखिन्ना । त्यक्तुं शरीरमचिरान्मलयाद्रिवायुं सौरभ्यशालिनमहो पिबति स्म चित्रम् ॥ २३ ॥ मलयपवनानां भुजंगभुक्तावशिष्टत्वात् ॥ सच्छास्त्रवाक्यकथिते शुभकर्ममूले न्याय्ये पथि प्रतिदिनं किल वर्तमानः । सद्यः पुमान्सकललोकहितानुयायी शून्यं करोति सकलं दनुजारिवक्षः ॥ २४ ॥ न्याय्यमार्गस्थितो हरिवक्षःस्थलस्थितामपि लक्ष्मीमपहर्तुं शक्तः । सा क्षामेति किमुच्यते तनु यया भद्रेतराशङ्कया त्वत्प्रत्यागमशंसिने बलिभुजे भूमौ बलिर्नार्प्यते ।