पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। बालोऽद्यापीशजन्मा समरमुडुपभृत्पांसुलीलाविलासी नागास्यः शातदन्तः स्वतनुकरमदाद्विह्वलः सोऽपि शान्तः । धिग्यासि क्वेति दुष्टं मुदिततनुमुदं दानवं सस्फुरोक्तं पायाद्वः शैलपुत्री महिषतनुभृतं निघ्नती वामपार्ष्ण्या ॥ ८२ ॥ इति सस्फुरोक्तं मुदिततनुसुदं महिपतनुभृतं दानवं वामपार्ष्ण्या निघ्नती शैलपुत्री वः पायात् । सस्फुरं स्फुरणयुक्तमुक्तं यस्य तम् । मुदितायां रोमा- ञ्चितायां तनौ मुद् यस्य तम् । इति किम् । समरं सङ्ग्रामं प्रति ईशजन्मा कार्तिकयोऽद्यापि बालः । उडुपभ्रूच्चन्द्रशेखरः शिवः पांमुलीलाविलासी भस्मो- द्धूलनासक्तः । नागास्यो गणपतिः शातदन्तः, अथ च स्वतनुकरमदाद्विह्वलः अत एव सोऽपि शान्तः । अधुना त्वं क्व यासि धिक् ॥ मूर्ध्नः शूलं ममैतद्विफलमभिमुखं शंकरोत्खानशूलं सङ्ग्रामाद्दूरमेतद्धृतमरि हरिणा मन्मनः कर्पतीव । गर्वादेवं क्षिपन्तं विवुधजनविभून्दैत्यसेनाधिनाथं शर्वाणी पातु युष्मान्पदभरदलनात्प्राणतो दूरयन्ती ॥ ८३ ॥ विबुधजनविभून्देकाधिनाधादिञ्शवादीन् , एवं गर्वाक्षिपन्तं तिरस्कुर्वाणं देत्यसेनाधिनाथं महिषं पदभरदलनाप्राणतो दूरयन्ती गतप्राणं कुर्वाणा शर्वाणी युष्मान्पानु । एवं कथम् । शंकरेणोत्खातं प्रहारार्थमुत्तम्भितं शूल- मभिमुखं सद्विफलं जातम् , एतन्मम मूर्ध्नः शूलं शिशःपीडाज्जनकम् । अतीव दुःखमिति यावत् । हरिणा एतत् अरि सुदर्शनं चक्रं सङ्ग्रामाद्दूरं धृत्तं सत् सन्मनः कर्षतीव॥ भ्राम्यद्धामौर्वदाहक्षुभितजलचरव्यस्तवीचीन्सकम्पा- न्कृत्वैवाशु प्रसन्नान्पुनरपि जलधीन्मन्दरक्षोभभाजः । १ समरसुरपतिभस्मलीलाविलासी'. २. 'लीलाभियोग्य ४. 'मृदिततनुमुदम्'. ५. 'मुस्फुटोक्तम्'. ६. 'दूरमस्मस्थितमरि. ७. 'भ्राम्य- हीमोरुदेहक्षुभितचलजल-'. ८. 'कृत्वा दागप्रसन्नान्'.