पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । आरूढा शूलपाणिः कृतविबुधभयं हन्तुकामं सगर्वं देयाद्वश्चिन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी ॥ ७९ ॥ गाढावष्टम्भपादस्य प्रबलभरेण नमत्पूर्वकायोर्ध्वभागं न्यक्कृताग्र्याङ्गभा- गम्, अत एवं संजातशिक्षं शिक्षितं जनमहिषमिव लौकिकं महिषमिव आरूढा, शूलपाणिः, द्रुतमहिषवधावाप्ततुष्टिर्भवानी वश्चिन्तितानि देयात् । कथंभूतम् । कृतविबुधभयम् , हन्तुकामम् , सगर्वम् ॥ ब्रह्मा योगैकतानो विरहभवभयाद्धूर्जटिः स्त्रीकृतात्मा वक्षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाधिशेते । युद्धक्ष्मामेवमेते विजहतु धिगिमं यस्त्यजत्येष शको दृप्तं दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्वती वः ॥ ८०॥ ब्रह्मा योगैकतानो योगनिष्ठः । विरहभवभयाद्धूर्जटिः शिवः स्वीकृतात्मा । शौरविष्णोर्विशालं वक्षः पद्मवासा लक्ष्मीरधिशेते । एवमेते युद्धक्ष्मां सङ्गा- मभूमिं विजहतु नाम । किं तु य एष शको युद्धभूमिं त्यजति इमं धिक् । एवं दृप्तं सगर्व दैत्येन्द्रं निघ्नती समदा पार्वती वः सुखयतु ॥ एवं मुग्धे किलासीः करकमलरुचा मा मुहुः केशपाशं सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोपलब्धे । वैदग्ध्यादेवमन्तःकलुषितवचनं दुष्टदेवारिनाथं देवी वः पातु पार्ष्ण्या दृढतनुमसुभिर्मोचयन्ती भवानी ॥८१॥ हे मुग्धे, एवं करकमलरुचा किल केशपाशं मुहुः मा आसीः मा क्षिप। यः दोषलब्धे प्रिये अन्यस्त्रीणां रतादौ कलहसमुचितः। एवं वैदग्ध्यादन्तःक- लुषितवचनं दुष्टाश्च ते देवारयो दैत्यास्तेषां नार्थ महिषं दृढतर्नु पार्ष्ण्या असु- भिर्मोचयन्ती भवानी देवी वः पातु ॥ १. 'विबुधरुपम्'. २. 'ब्रह्मन्'. ३. 'भवविरह'. ४. 'स्वीकृतात्मा'. ५. 'धिगिमान्यत्त्यजत्येष शत्रुः', 'विदिशं द्राक्त्यजत्वेष शक्रः'. ६. 'दृष्टम्'. ७. 'करकमलतवा'.८. 'कोपलब्धे'.