पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। विस्फुरन्नेत्रबाणभेतद्भ्रूचापं वृथा नमयसि नु । रहस्ये केलौ प्रतियुक्त्याः सपत्न्या कृतः ख्यातिदोषो येन तादृशः पिनाकी नाहम् । नाहं कृतगोत्रस्ख- लनः शिव इति भावः ॥ अन्योन्यासङ्गगाढव्यतिकरदलितभ्रष्टकापालमालां खां भोः संत्यज्य शंभौ खुरपुटदलितप्रोल्लसद्भूलिपाण्डुः । भद्रे क्रीडाभिमर्दी तव सविधमहं कामतः प्राप्त ईशो- त्रैवं सोत्प्रासमव्यान्महिषसुररिपुं निम्नती पार्वती वः ॥७॥ एवं सोत्यासं महिषसुररिपुं निम्नती पार्वती वोऽव्यात् । एवं कथम् । भो भद्रे, अन्योन्यासङ्गेन यो गाढव्यतिकरस्तस्मिन्दलिता अत एव भ्रष्टा या कपालसंबन्धिनी माला तां स्वां मालां शंभौ संत्यज्य खुरपुटदलितप्रोल्लसद्धू- लिपाण्डुः क्रीडयाभिमर्दो गाढालिङ्गनम् , पक्षे सङ्ग्रामः स यस्य सोऽहमीश- स्तव सविधं कामतोऽत्र प्राप्तः ॥ ज्वालाधाराकरालं ध्वनितकृतभयं यं प्रभेत्तुं न शक्तं चक्र विष्णोर्दृढास्त्रि प्रतिविहतरयं दैत्यमालाविनाशि । क्षुण्णस्तस्यास्थिसारो विबुधरिघुपतेः पादपातेन यस्या रुद्राणी पातु सा वः प्रशमितसकलोपप्लवा निर्विघातम् ॥७८|| सा प्रशमितसकलोपप्लवा रुद्राणी निर्विघातं वः पातु । सा का । यस्याः पादपातेन तस्य विबुधरिपुपतेर्महिषस्यास्थिसारः क्षुण्णः पिष्टः । तस्य कस्य । ज्वालाधाराकरालं ध्वनितकृतमयं दृढास्त्रि दैत्यमालाविनाशि विष्णोश्चकं प्रति- विहतरयं सत् यं प्रभेत्तुं न शक्तम् ।। गाढावष्टम्भपादप्रबलभरनमत्पूर्वकायोर्ध्वभागं दैत्यं संजातशिक्षं जनमहिषमिव यक्कृतात्र्याङ्गभागम् । १. 'कापालमालं खाझं विन्यस्य'. २. 'शंभोः'. ३.'क्रोडाभिमदी'. ४. 'अत्र' इति पुस्तकान्तरे नास्ति. ५. 'खनित'. ६. 'यत्र कर्तुम्'. ७. 'दृढाधि'. ८, 'स- तिविहतरयम्'. ९. 'दैत्यमायाविलासि'. १०, 'रिपुविभोः'. ११. 'भुवनोपद्रवा'. १२. 'प्रचुर'. १३. 'निज्ञातशिक्षम्'; 'नितिशिष्यम्'; 'निर्यातसारम्'; 'निर्जात- शिष्टम्'. १४. 'प्राकृताम्यानभागम्'.