पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

a चण्डीशतकम् । भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता बिभ्रती नैव गर्वं शर्वाणी शर्मणे वः प्रशमितसकलोपप्लवा सा सदास्तु । या पार्ष्णिक्षुण्णशत्रुर्विगलितकुलिशप्रासपाशत्रिशूलं नानौकोलोकमेव स्वमपि भुजवनं संयुगेऽवस्त्वमंस्त ॥ ६४ ॥ भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता, तथा गर्वं नैव बिभ्रती, प्रशमित- सकलोप्लवा सा शर्वाणी वः शर्मणे सदास्तु । या पार्ष्णिक्षुण्णशत्रुर्नाकौको- लोकं देवलोकं स्वं भुजवनमप्यवस्त्वपदार्थममंस्त । कथंभूतम् । संयुगे विग- लितकुलिशप्रासपाशत्रिशूलम् । देवहस्तेभ्यो भयेन भवानीभुजेभ्यश्च प्रहा- रार्थं कुलिशादीनि गलितानि ॥ चक्र शौरेः प्रतीपं प्रतिहतमगमत्प्राग्द्युधाम्नां तु पश्चा- दापच्चापं बलारेर्न परमगुणतां पूस्त्रयप्लोषिणोऽपि । शक्त्यालं मां विजेतुं न जगदपि शिशौ षण्मुखे का कथेति न्यक्कुर्वन्नाकिलोकं रिपुरवधि यया सावतात्पार्वती वः ॥६५॥ इत्यमुना प्रकारेण नाकिलोकं न्यक्कुर्वन्यया रिपुरवधि शत्रुर्हतः सा पार्वती वोऽवतात् । इतीति किम् । शौरेर्विष्णोश्चक्रं सुदर्शनं प्रतिहतं सत्प्राक्प्रथमं प्रतीपमगमत् , द्युधाम्नां देवानां तु चक्रं सैन्यं पश्चात् । बलारेरिन्द्रस्य चापं परं केवलमगुणतां नापत् , पूस्त्रयप्लोषिणः शिवस्यापि । शक्त्या सामर्थेन मां जेतुं जगदपि नालं न समर्थम्, शिशौ बाले षण्मुखे का कथा । षण्मुखः शक्त्यायुधविशेषेण मां जेष्यतीति दूरापास्तमिति भावः ॥ विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥६६॥ १. 'विगलितकुलिशापास्तशस्त्रीपिनाकम्'; 'नगणितकुलिशप्रासशस्त्रीपिना- २. 'एवं खमपि भुजवनं संयुगे'; 'आर्त द्रुतमिति रभसा संयुगे'. ३. 'अपतत्'. ४. अयं श्लोकः सरस्वतीकण्ठाभरणे शाईधरपद्धतौ च वर्तते.