पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ काव्यमाला। हे गजानन, रुद्रवृन्दे विद्राणे पलायिते सति, सवितरि सूर्ये तरले सति, वज्रिणीन्द्रे ध्वस्तवज्रे सति, शशाङ्के जाताशङ्के सति, मरुति वायौ विरमति सति, कुबेरे त्यक्तवैरे सति, वैकुण्ठे विष्णौ कुण्ठितास्त्रे सति, अतिरुषं पौरुषोपघ्ननिघ्नं पौरुषाश्रयाधीनं महिषं निर्विघ्नं यथा स्यादेवं निघ्नती भूरिभावा भवानी वो दुरितं शमयतु ॥ भूषां भूयस्तवाद्य द्विगुणतरमहं दातुमेवैष लग्नो भग्ने दैत्येन दोर्पान्महिषितवपुषा किं विषाणे विषण्णः । इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य न्यस्यन्नास्ये गुहो वः स्मितसित्तरुचिनी द्वेषिणो द्वे विषाणे॥६७॥ मातुर्महिषवधमहे महिषवधोत्सवे इत्युक्त्वा द्वेषिणो महिषस्य द्वे विषाणे शृङ्गद्वयं कुञ्जरेन्द्राननस्य गणपतेरास्ये मुखे न्यस्यन्क्षिपन्गुहो वः पातु । कथं- भूते विषाणे । स्मितसितरुचिनी स्मितेन धवलकान्ती । इतीति किम् । हे गजानन, महिषितवपुषा दैत्येन विषाणे दन्ते भग्ने सति त्वं किं विष- ण्ण: खिन्नः, अहमेष द्विगुणतरं यथा स्यादेवं भूयः पुनरपि तवाद्य भूषां दातुं लग्न एव ॥ विश्राम्यन्ति श्रमार्ता इव तपनभृतः सप्तयः सप्त यस्मि- न्सुप्ताः सप्तापि लोकाः स्थितिमुषि महिषे यामिनीधाम्नि यत्र । धाराणां रौधिरीणामरुणिमनि नभःसान्द्रसंध्यां दधान- स्तस्य ध्वंसात्सुतानेरपरदिनपतिः पातु वः पादपातैः ॥ ६८ ॥ अपरदिनपतिर्द्वितीयः सूर्योऽर्द्रेः सुता पार्वती वः पातु । कथंभूतोऽपरदि- नपतिः । यामिनीधाम्नि रात्रितुल्यवर्णे । कृष्णवर्ण इति यावत् । स्थितिमुषि लोकव्यवहारनाशके महिषे सति यस्मिञ्श्रमार्ता इव तपनभृतः सूर्यस्य सप्त सप्तयोऽश्वा विश्राम्यन्ति । किं च यत्र सप्तापि लोकाः सुप्ता इव सन्ति, तस्य महिषस्य पादपातैश्चरणप्रहारैर्ध्वंसान्नाशात् रौधिरीणां रुधिरसंबन्धिनीनां धारा- णामरुणिमनि रक्तत्वे नमःसान्द्रसंध्या नभसि या सान्द्रा निबिडा संध्या तां दधानः । सूर्योऽपि निखिललोकस्थितिहारिणीं विश्रामकारिणीं रात्रिं पादपातैः किरणपतनैर्नाशयति । रक्तवर्णां संध्यां च धारयति ॥