पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० काव्यमाला। तद्यौः परिचितद्यौ रक्ता रक्तवर्णानुरक्ता च निस्रोता वहति पश्य । इयं तव मूर्ध्ना भृशं किं भो धार्यते ॥ शृङ्गे पंश्योर्ध्वदृष्ट्याधिकतरमतनुः सन्न पुष्पायुधोऽस्मि व्यालासङ्गेऽपि नित्यं न भवति भवतो मीर्नयज्ञोऽस्मि येन। त्वं मुञ्चोच्चैः पिनाकिन्पुनरपि विशिखं दानवानां पुरोऽहं पायात्सोत्प्रासमेवं हसितहरममा मृद्गती दानवं वः ॥ ६२ ।। एवं सोत्प्रासं समनाक्स्मितं यथा स्यात्तथा हसितहरं दानवं महिषं मृद्गती उमा वः पायात् । एवं कथम् । हे पिनाकिन् , ' ऊर्ध्वदृष्टया तृतीयलोचनेन मम श्रृङ्गे विषाणद्वयमधिकतरं पश्य । किं त्वहमतनुः सन्न पुष्पायुधः का- मोऽस्मि । कामोऽप्यतनुरनङ्गः, अहं चातनुरकृशः । यथा स्वयोर्ध्वदृष्ट्या कामो दग्धस्तथाहं दग्धुं न शक्यः । अथ च व्यालस्य बाणस्थासङ्गेऽपि भवतो नित्यं भीर्नं भवति। यतोऽहं यज्ञो नास्मि।यथा तव बाणपातमीत्या यज्ञः पलायित- स्तथा नाहम् । व्यालाः सर्पाश्च तेषामासङ्गेऽपि मम भीर्न, यतोऽहं नयज्ञो गारुडशास्त्रज्ञोऽस्मि । अहं दानवानां पुरः पुरत्रयमस्मि त्वं पुनरपि विशिखं बाणमुच्चैर्मुञ्च । पक्षे दानवानां पुरोऽग्रे अस्मि । दानवाग्रेसरोऽहमिति भावः । 'व्यालः स्याद्वाणसर्पयोः ॥ नन्दीशोत्सार्यमाणापसृतिसमनमन्नाकिलोकं नुवत्या नप्मुर्हस्तेन हस्तं तदनुगतगतेः षण्मुखस्यावलम्ब्य । जामातुर्मातृमध्योपगमपरिह्रते दर्शने शर्म दिश्या- न्3नेदीयच्चुम्ब्यमाना महिषवधमहे मेनया मूर्ध्युमा वः ॥६३॥ महिषवधमहे मेनया हिमवद्भार्यया मूर्ध्नि चुम्ब्यमाना उमा वः शर्म दिश्यात् । किंभूतया मेनया । नन्दीशेन उत्सार्यमाणं अपमृतिसमं अपसरण- कालतुल्यं नाकिलोकं नुवत्या स्तुवत्या । किं कृत्वा । तदनुगतगतेः षण्मु- खस्य हस्तं हस्तेनालम्ब्य । कस्सिन्सति । जामातुर्दर्शने मातृमध्योपगमपरिह्रते सति । नेदीयः समीपम् , अर्थाज्जामातुः, गौरी मेनया चुम्बिता ॥ १. 'यस्य'. २. 'नाकिनृत्यम्'. ३. "देवी संतुष्यमाणा'.