पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । अष्टाभिर्दिग्गजेन्द्रैः सह न हरिकरी कर्षतीमं हते वो ह्रीमत्या हैमवत्यास्त्रि1दशरिपुपतौ पान्त्विति व्याहृतानि ॥५९॥ त्रिदशरिपुपतौ महिपे हते ह्रीमत्या लज्जिताया हैमवत्याः पार्वत्या इति व्याहृतानि वः पान्तु । हे वासुके, अयं मन्दराद्रिर्मन्दरादितुल्यो महिषोऽब्धौ समुद्रे क्षिप्तो भवता पुनरपि वेष्ट्यताम् । हे तार्क्ष्य गरुत्मन् , अनेन महिषेण प्रीयस्व तृप्तो भव । बिसतनुतनुभिर्मृणालकोमलैर्नोगैर्क्षितैस्ते किम् । इमं महिषमष्टाभिर्दिग्गजेन्द्रैः सह हरिकरी ऐरावतो न कर्षति ॥ एष प्लोष्टा पुराणां त्रयमसुहृदुरःपाटनोऽयं नृसिंहो हन्ता त्वाष्ट्रं धुराष्ट्राधिप इति विविधान्युत्सवेच्छाहतानाम् । विद्वाणानां विमर्दे दितितनयमये नाकलोकेश्वराणा- मश्रद्धेयानि कर्माण्यवतु विदधती पार्वती को हतारिः॥६०॥ दितितनयमये विमर्दै दैत्यसङ्ग्रामे विद्राणानां पलायितानां पुनर्महिषव- धानन्तरमुत्सदेच्छयाहृतानामेकीभूतानां नाकलोकेश्वराणामिन्द्रादीनामश्रद्धे- यान्यसंभावनीयानि विविधानि कर्माणि विदधती कुर्वती हतारिः पार्वती वोऽवतु रक्षतु । एष पुराणां त्रयं प्लोष्टा । यद्यनेन त्रिपुरदाहः कृतः किमिति महिषसङ्ग्रामे पलायित इति भावः । एवमग्रेऽपि योज्यम् । असुहृदुरःपाट- नोऽयं नृसिंहः । अयं त्वाष्टुं वृत्रं हन्ता धुराष्ट्राधिप इन्द्रः ॥ शत्रौ शातत्रिशूलक्षतवपुषि रुषा प्रेषिते प्रेतकाष्ठां काली कीलालकुल्यात्रयम3धिकरयं वीक्ष्य विश्वासितद्यौः । त्रिस्रोतास्त्र्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा- न्नो मूर्ध्ना धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः ॥६१॥ शातत्रिशूलक्षतवपुषि शत्रौ रुषा प्रेतकाष्ठां यमदिशं प्रेषिते सति अधिकर- यमधिकवेगयुक्तं कीलालकुल्यात्रयं रुधिरधारात्रयं वीक्ष्य इति हसित्तपतिः काली वः प्रीतये कल्पताम् । इतीति किम् । हे त्र्यम्बक, इयं विश्वासि. १. 'त्रिदिवरिपुहतो'. २. 'प्रोषिते'. ३. 'अधिकतरम्'.