पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कुतः । शङ्कुतः । यो वज्रादीनामप्यसाध्यः स शङ्कुतः कुतः साध्य इति भावः। चक्रव्युक्रमकृदतिक्रान्तचक्रः । परोक्षः परशुर्यत्र सः । शूलेन शून्यः ॥ नष्टानष्टौ गजेन्द्रानवत न वसवः किं दिशो द्राग्गृहीताः शार्ङ्गिन्सङ्ग्रामयुक्त्या लघुरसि गमितः साधु तार्क्ष्येण तैक्ष्ण्यम् । उत्खाता नेत्रपङ्क्तिर्न तव 1समरतः पश्य नश्यद्बलं स्वं स्वर्र्नाथेत्यात्तदर्प व्यसुमसुरमुमा कुर्वती त्रायतां वः ॥ ५७ ॥ इत्यमुना प्रकारेणात्तदर्पं गृहीतगर्वमसुरं महिषं व्यसुं गतप्राणं कुर्वती उमा वस्त्रायताम् । इतीति कथम् । हे वसवः, नष्टान्पलायितानष्टौ गजे- न्द्रान्दिग्गजान्न अवत, किं दिशो द्राक् गृहीताः यूयमपि पलायिताः । हे शार्ङ्गिन् विष्णो, तार्क्ष्येण गरुडेन तैक्ष्ण्यं शीघ्रतां गमितः सङ्ग्रामयुक्त्या लघु- रसि इति साधु युक्तम् । हे स्वर्नाथ इन्द्र, तव नेत्रपङ्क्तिनोत्खाता केनापि नोत्पाटिता, अतस्त्वं समरतः सङ्ग्रामानश्यत्स्वं बलं सेनां पश्य ॥ श्रुत्वा शत्रुं दुहित्रा निहतमतिजडोऽप्यागतोऽह्वाय हर्षा- दाश्लिष्यञ्छैलकल्पं महिषमवनिभृद्वान्धवो विन्ध्यबुद्ध्या । यस्याः श्वेतीकृतेऽसिन्स्मितदशनरुचा तुल्यरूपो हिमाद्रि- र्द्राग्द्राधीयानिवासी2देवतमसनिरासाय सा स्तादुमा वः ॥५८॥ सा उमा वोऽवतमसनिरासाय अज्ञानान्धकारदूरीकरणाय स्वाद्भवतु । सा का । यस्याः स्मिते या दशनरुक् तया श्वेतीकृतेऽस्मिन्महिषे तुल्यरूपो हिमाद्रिद्राग्द्राधीयानिवासीत् । कथंभूतः । दुहित्रा पार्वत्या निहतं शत्रु महिषं श्रुत्वातिजडोऽप्यह्वाय शीघ्र हर्षादागतो विन्ध्यबुद्ध्या शैलकल्पं महिषमा. श्लिष्यन् । कीदृशः । अवनिभृतः पर्वता बान्धवा यस्य तादृशः॥ क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्ट्यतां वासुकेऽब्3धौ

  • 4प्रीयस्स्वानेन किं ते बिसतनुतनुभिर्भक्षितस्तार्क्ष्य नागैः ।

१. 'सुरपते'. २. 'अतनुजनुनिरासाय'. ३. 'असौ'. ४. 'प्रीतोऽनेनैव'.